सुभाषितनीवी /63
This page has not been fully proofread.
असे व्यपद्धतिः ।
४५
अमित्रे विश्वासः श्वपचकरके सौमिकरसः
कपाले गङ्गाम्भः खलपरिषद के सुजनता ।
परिक्षीणाचारे श्रुतमनुपनीते च निगमः
स्वतःसिद्धां शुद्धिं त्यजति विपरीतं च फलति ॥ ११ ॥
'
अमित्र इति । श्रपचानां चण्डालानां करके पात्रविशेषः,
तस्मिन्; सौमिकरस: ः देवतासमर्पितावशिष्टः सोमरसः, जनानां
समूहो जनता, शोभना चासौ जनता च सुजनता, ग्रामजनबन्धुभ्यस्त -
लिति समूहार्थे तत्प्रत्ययः । स्पष्टमन्यत् ॥ ११ ॥
राजगृहं द्रव्यचौर्याद्यारोपणादिभिर्दण्डहेतुत्वाद सेव्यमित्याह--
तरतु विवित्सयाब्धिमधिरोहतु शैलतटं
धमतु च धातुवर्गमधिगच्छतु शस्त्रमुखम् ।
तदिदमरुन्तुदं यदुत बहवधाय भिया
धनमदमेदुरक्षितिभृदङ्कणचङ्क्रमणम् ॥ १२ ॥
इति श्रीकवितार्किक सिंहस्य सर्वतन्त्र स्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य
कृतिषु सुभाषितनीव्यां
असेव्यपद्धतिः
पञ्चमी ॥