This page has not been fully proofread.

४४
 
सुभाषितनीव्यां
 
वल्मीकानि खनन्ति, त्यक्तमिथोवैराः सन्तः सङ्गीभूय पलायमानाः
सन्तः दण्डेनापि न भज्येरन्, भग्ना न क्रियेरन्, 'स्यान्मण्डलं द्वा-
दशराजके च देशे च बिम्बे च कदम्बके च । कुष्ठप्रभेदेऽप्युपसूर्य के
च भुजङ्गभेदे शुनि मण्डल: स्यात् ' ' त्रिम्बोऽस्त्री मण्डलं त्रिषु' इति
पुल्लिंग ॥
 
:
 
अनाकलितमानुष्याः क्षमासंस्पर्शवर्जिताः ।
प्रतिबुद्धैर्न सेव्यन्ते पूर्वदेवविरोधिनः ॥ १० ॥
 
;
 
अनाकलितेति । अनाकलितमगृहीतं, मानुष्यं मनुष्यकर्म, येषां ते
तथोक्ताः, पिशाचव्यापारवन्त इत्यर्थः ; गुणवचनब्राह्मणादिभ्यः कर्मण
चेति ष्यञ् प्रत्ययः । ब्राह्मणादिराकृतिगण इत्युक्तम् । अनाकलितमप्राप्तं
मानुष्यं मनुष्यभावो मनुष्यत्वं येषां ते तथोक्ता इति च । क्षमासंस्पर्शन
क्षमा गुणसंस्पर्शन च भूतलसंस्पर्शन च वर्जिताः पूर्व देवविरोधिनो
देवद्वेषिणः पश्चात् ब्राह्मणद्वेषिणश्च ; प्रतिबुद्धै: बुद्धिमद्भिः न सेव्यन्ते
नाश्रीयन्ते । पूर्वदेवा राक्षसाः, तद्विरोधिनो देवाः, प्रतिबुद्धैर्मोक्षा-
र्थिभिः, न सेव्यन्ते ; 'ब्रह्माणं शितिकण्ठं च याश्चान्या देवताः
स्मृताः । प्रतिबुद्धा न सेवन्ते यस्मात् परिमितं फलम्' इत्युक्तेः ॥
यथा मोक्षकामैरन्यदेवता न सेव्यन्ते, दूरं परिहियन्ते, एवं बुद्धिमद्भिः
दुर्जना न प्राप्या इत्यर्थः ॥ १० ॥
 
परिक्षीणाचारस्य श्रुतमपि विदुषाऽतिक्रमे दण्डभूयस्त्वहेतुत्वा-
दधिकानर्थे संपादयतीति सदृष्टान्तमाह-