This page has not been fully proofread.

असेव्यपद्धतिः ।
 
४३
 
तथोक्ता तया, त्रिपगर्भया ; ईक्षया दृष्टया च, असद्भावाय दुष्टत्वाय
नाशाय; जायेत । अतो विषयभोगलम्पटेन सह वासो न कार्य इति
 
भावः ७ ॥
 
1
 
मण्डूकराविणं सर्प गोमुखं च मृगादिनम् ।
 
न सुहृत्वेन मन्येत मानयन्तं च वैरिणम् ॥ ८ ॥
मण्डूकेति ॥ मण्डूक इव रौतीति मण्डूकरावी तं कर्तर्युपमान
इति णिनिः, सर्प, सर्पजातिषु तादृशः कश्चित्सपऽस्ति गोमुखं
तादृशमुखयुक्तम् ; मृगादिनं व्याघ्रम्, व्याघ्रजातिषु तादृशः कश्चि-
दस्ति; तं दृष्ट्वा तादृशोऽयमिति न विश्वसेदित्यर्थः । मानयन्तं वैरिणं
च, सुहृत्त्वेन शोभनहृदयत्वेन मित्रत्वेन च, न मन्येत । ' वदन्ति
asarai धर्मैक्यं दीपकं बुधाः इत्युक्तदीपकालंकारः ॥
'न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् । विश्वासाद्भयमुत्पन्नं
मूलान्यपि निकृन्तति इति नीतिविदः ॥ ८ ॥
 
घोरास्त्यक्तमिथोवैराः सौकर्यवदुपद्रवे ।
 
दण्डेनापि न भज्येरन्पापकुण्डलिमण्डलाः ॥ ९ ॥
 
घोरा इति । घोराः क्रूराः, पापा: कुण्डलिमण्डलाः सर्पसमूहा
इव तथोक्ताः; सौकर्यं सुकरत्वं अस्यास्तीति सौकर्यवान्, सुलभ
इति यावत्; तादृशे उपद्रवे अल्पोपद्रवेऽपीत्यर्थः । सौकर्यं सूकर-
भावः, तदेषामस्तीति तद्वन्तो वराहाः । ' सौकर्यं स्यादनायासे सूक-
रस्य च कर्मणि इति विश्वः । तेषामुपद्रवे तत्कर्तृकेोपद्रवे, ते हि