सुभाषितनीवी /60
This page has not been fully proofread.
४२
सुभाषितनीव्यां
योः' इति निघण्टुः । शेषं स्पष्टम् । मन्ये – इति निपातप्रतिरूपकम-
व्ययमिति भोजराजः । ' अधमांस्तु न सेवेत य इच्छेद्भूतिमात्मनः ।
यदि सन्तं हि सेवेत यद्यसन्तं तपस्विनम् ॥ ' ' वासो यथा रागवशं
प्रयाति तथा स तेषां वशमभ्युपैति ' इत्यादि स्मारितम् ॥ ५ ॥
मित्रे भवति वैमुख्यं मैत्री दोषाकरेण च ।
अपि तीर्थप्रसूतानां कैरवाणां रजोभृताम् ॥ ६ ।
मित्र इति । तीर्थप्रसूताना योग्यादुत्पन्नानाम्, जलावतारोत्प-
न्नानां च; रजोभृतां रजोगुणवतां,
परागवतां च; कैरवाणां शठानां
कुमुदानां च; मित्रे सख्यौ सूर्ये च; वैमुख्यं भवति दोषाकरेण पापा-
त्मना चन्द्रेण च; मैत्री भवति । अतो न सेव्या इति भावः । नन्व-
सेव्यत्वं कैरवाणि न निदर्शनमिति चेन्न; रजोभृतां मिलवैमुख्यादिके
निदर्शनेन समर्थिते सति तेषामसेव्यत्वसिद्धेः ॥ ६ ॥
अपि निर्मुक्तभोगेन स्वान्तःस्थविषयेक्षया ।
असद्भावाय जायेत जिह्मगेन सहासिका ॥ ७ ॥
अपीति ॥ निर्मुक्तस्त्यक्तो भोगो येन तेनापि ; निर्मुक्तो मुक्त-
कञ्चुको भोगः शरीरं यस्य तेन च तथोक्तन ; जिझगेन कुटिलवृत्तिना
सर्पेण च ; सहासिका सहावस्थानम्, धात्वर्थनिर्देशे ण्वुल् वक्तव्य इति
ण्वुल् ; स्वान्तःस्था: मनः स्थिता अभिलषिता ये विषयाः भोग्यपदार्थाः,
स्वान्ते स्वस्यान्ते समीपे तिष्ठन्तीति तथोक्ताः ; ते च ते विषयास्ते-
पामीक्षया दृष्टया ; स्वस्य अन्तस्तिष्ठतीत्यन्तःस्थं विषं यस्यास्सा
'