सुभाषितनीवी /59
This page has not been fully proofread.
असेव्यपद्धतिः ।
यस्य यत्सत्ता स्वरूपविरुद्धा, तयोः कदापि न संबन्ध इत्याह-
सतः सत्त्वविहीनानां सत्तयैवापराध्यतः ।
कथंकारं प्रतीकारः कल्पकोटिशतैरपि ॥ ३ ॥
४१
सत इति ॥ सत्त्वविहीनानां सत्त्वगुणरहितानां तामसादीनां
विद्यमानतारहितानां च सत्तया साधुभावेनैव, विद्यमानतयैव च
अपराध्यतः सतः; सत्तैव तेजसस्तिमिरस्य विरुद्धा, प्रतीकारः
विरोधपरिहारः, कल्पकोटिशतैरपि कथंकारं कथंचिदित्यर्थः अन्य-
थैवं कथमित्थं सुसिद्धाप्रयोगश्चेदिति कथमित्युपपदे स्वार्थे कृञि
'णमुल् ॥ ३ ॥
,
:
अपि संतापशमनाः शुद्धाः सुरभिशीतलाः ।
भुजंगसंगाज्जायन्ते भीषणाश्चन्दनद्रुमाः ॥ ४ ॥
अपीति । स्पष्टम् ' मुखेन गरळं मुञ्चन् मूले यदि महोरगः ।
फलसन्दोहगुरुणा तरुणा किं प्रयोजनम् ॥ ' ' सुपुष्पितः मारफलः
फलितः स्याद्दुरासदः । अपक्कः पक्कसङ्काशः स च शीर्येत कर्हिचित् '
इत्यादि स्मारितम् ॥ ४ ॥
नीचानुसरणान्मन्ये निसर्गपरिशुद्धयोः ।
गतिः कुटिलतां याति गङ्गायमुनयोरपि ॥ ५ ॥
नीचेति ॥ नीचानुसरणात् नीचसेवनात्, उन्नतभूमेर्निम्नदेशे प्रव-
इनाश्च गतिर्बुद्धिर्गमनं च, 'गतिस्तु गमने मार्गे दशायां बुद्ध्युपाय-
"