This page has not been fully proofread.

असेव्यपद्धतिः ॥
 
SKO
 
कठिनः कृशमूलच दुर्लभो दक्षिणेतरः ।
कश्चित्कल्याणगात्रोऽपि मनुष्यैर्नोपजीव्यते ॥ १ ॥
 
कठिन इति ॥ कठिनो निर्दयः, कृशमूलः निर्धनः, मेरुस्तु
मूले कृशः उपरि विस्तीर्णश्च, दक्षिणेतरः अनुदार:, भुवो मध्यदे-
शवर्तित्वाद्दक्षिणदिग्भागवर्ती, पर्वतेभ्य इतरश्च, 'दक्षिणस्सरलो वाम-
पद्यच्छन्दानुवर्तिषु' इति विश्व: । ' दक्षिणे सरलोदारः ' इत्यमर: ।
कल्याणगात्रः शुभाकृतिरपि सुवर्णमयशरीरोऽपि; 'कल्याणमक्षये स्वर्णे
कल्याणं मङ्गलेऽपि च ' इति विश्वः । कश्चित् पुरुषो मेरुश्च
मनुष्यैर्नोपजीव्यते एकत्र व्यर्थत्वादन्यत्रासाध्यत्वादिति भावः ॥ १ ॥
 
दृष्टपका प्रतिपदं स्यादल्पसरसः स्थितिः ।
 
काले घनरसैर्योगे ऽप्यसेव्या जीवितार्थिभिः ॥ २ ॥
 
दृष्टपङ्केति ॥ प्रतिपदं दृष्टपङ्का ग्रीष्मे दृष्टकर्दमा दृष्टदोषा च;
काले वर्षाकाले कार्यकाले च; घनरसैर्योगेऽपि, अल्पसरसः स्थितिः
क्षुद्रकासारस्थितिरल्पपुरुषस्थितिश्च; जीवितार्थिभिः प्राणार्थिभिः जीव-
नार्थिभिश्च, असेव्या स्यात् । ' उत्तमानेव सेवेत प्राप्तकाले तु मध्य-
मान्' इति धृतराष्ट्रप्रजागरे उक्तत्वात् काले घनरसैर्योगे ऽपीत्युक्तम् ॥