This page has not been fully proofread.

दुर्वृत्त पद्धतिः ।
 
1
 
३९
 
आलोकेति ॥ अलोकावधि आलोको यावति देशे वर्तते ताव-
त्पर्यन्तम्, भूतानि यद्वशेन यद्दृष्टिविशेन, सुगतिं शोभनगमनं
विन्दन्ति । लोकावधिमभिव्याप्य स्थितानि भूतानि यत्सत्यज्ञानेन
सुगतिं सद्गतिं विन्दन्ति इति प्रतीयते । असौ दृष्टिः, तत्त्वबुद्धिश्व
' दृष्टिज्ञानेऽक्षिण दर्शने ' इत्यमरः । स्नेहवशेन रागवशेन मण्डूकत्र-
साद्यञ्जनविशेषेण, वंशे वेणौ भुजङ्गभ्रमं वितनुते भुजङ्गभ्रमं जन-
यति; वंशोरगभ्रमे मण्डूकवसाञ्जनं दोष इत्याहुः । स्नेहवशेन राग-
वशेन, वंशे जनवर्गे, भुजंगभ्रमं विटभ्रान्ति, 'वंशे वेणौ कुले
वर्गे' इत्युभयत्रापि विश्वः, वितनुते । भोगिषु सर्वेषु, भोग-
वत्सु च विषं इतां प्राप्तां विषमितां, विषमिश्रां ; विषमीकृतां दृष्टिं
क्षणान्निहन्तुं दक्षाः सन्तीति शेषः; तामपि दृष्टिं क्षणस्फूर्जथुः क्षणं
क्षणमात्रं स्फूर्जथुः वज्रसङ्घर्षशब्दो यस्याः सा ; क्षणरुचिः विद्यु-
त्काचित् आशु विनाशयेत् । वज्रपतनकालिकी विद्युत् दृष्टेरत्यन्तप्र-
तिबन्धकेति भावः । 'टुओस्फूर्जा वज्रनिर्घोषे इत्यस्मात् द्वितो
थुजिति अथुच् ॥ १२ ॥
 
:
 
इति श्रीमच्छ्रीशैल कुलतिलकस्य वेङ्कटाचार्य सोमसुतः सुतस्य
श्रीश्रीनिवासविदुषः कृतिषु सुभाषितनीवी-
व्याख्यायां रत्नपेटिकाख्यायां
दुर्वृत्तपद्धतिः
चतुर्थी ॥