This page has not been fully proofread.

३८
 
सुभाषितनीव्यां
 
रोषणा विपरिधाविनो मुहु-
 
पयन्ति जनमुज्झितहियः ॥ ११ ॥
 
जातिमात्रेति । जातिमात्रमेव शरणं रक्षणोपायो येषां ते तथोक्ताः,
मात्रचा तदुचितकर्मादयो व्यवच्छिद्यन्ते, अन्यत्र जातिः चुल्ली,
' जातिजतिफले धात्र्यां चुल्लीकंपिल्लयोरपि' इति विश्वः । तदेव
तन्मात्रं शरणं स्थानं येषां तेषामित्यर्थः । बहिष्कृताः सद्भिः निरस्ताः
बहिर्देश एव स्थापिताश्च; 'नित्यं समासे ऽनुत्तरपदस्थस्य' इति षत्वम् ।
आता जघन्यवृत्तिर्नीचवृत्तिश्च येषां ते तथोक्ताः, जघन्यं चरमे
शिभे जघन्यं गर्दितेऽन्यवदिति विश्वः । रोषणाः क्रोधाविष्टाः,
नन्द्यादित्वाल्ल्युः । मुहुर्विशेषेण; कलहार्थं, नूतनजनाप्रवेशार्थं च
अभिमुखं धावन्तीति विपरिधाविनः, ऊज्झितह्रियः स्वयंगर्हितवृत्तय
इति, लज्जारहिताः केचिद्दुर्जनाः शुनकाश्च जनं हेपयन्ति ; स्वदर्शनेन
जनः स्वयमेव यथा लज्जायुक्तो गच्छेत् तथा कुर्वन्तीत्यर्थः । ह्री ल
ज्जायामित्यस्माणिचि अर्तिही इत्यादिना पुगागमे पुगन्तलघूपध-
स्येति गुणे हेपयन्तीति रूपम् । शुनकसाम्यं प्रतीयते ॥ ११ ॥
 
क्षुद्रनिषिद्धविषयाभिलाप: सद्बुद्धिं प्रतिक्षिपतीत्याह--
आलोकावधि यद्वशेन सुगतिं विन्दन्ति भूतान्यसौ
दृष्टिस्नेहवशेन सा वितनुते वंशे भुजंगभ्रमम् ।
दक्षा भोगिषु केषुचिद्विषमितां दृष्टिं निहन्तुं क्षणा-
तानप्याशु विनाशयेत्क्षणरुचिः काचित्क्षणस्फूर्जथुः ॥