This page has not been fully proofread.

दुर्बत्तपद्धतिः ।
 
३७
 
कटकमकुटाद्यर्थक्रियाभावेन, 'क्वचित्तदभावेऽपि नञ्समास इष्यते '
इति ; अन्वितः कश्चिदारोपितो रजतादिः; विरुद्धाकारवेदिभिः
शुक्तिस्वरूपज्ञैः, रजतभाववेलायां सत्त्वेन गृहीतोऽपि शुक्तित्व-
ग्रहणदशायां, रजतादिरर्थोऽसत्कारेणासद्भावेन,
 
मासिकरजतादिरत्र निदर्शनम् ॥ ९ ॥
 
वृत्त्या मलिनो राज्ञा मित्रेणापि दण्ड्यो भवतीत्याह-
 
प्राति-
 
तमः स्वभावमलिनं वृच्यालोकोज्झिताश्रयम् ।
दण्ड्यं मित्त्रेण राज्ञा च दृष्टदोषान्वयं विदुः ॥ १० ॥
 
तम इति । वृत्त्या हेतुना आलोकेन प्रकाशेन लोकेन च,
उज्झित आश्रयो यस्य तथोक्तम्, दृष्टः दोपायां रात्रौ अन्वयो यस्य
तत् । दोषापदं रात्रिवाचकमव्ययमिति अमरसिंहादिभिरुक्तम्; अन्ये
तु 'ततः कथाभिः समतीत्य दोषामारुह्य सैन्यैः सह पुष्पकं ते ' इति
भट्टिप्रयोगादनव्ययमप्याहुः । अन्यत्र दृष्टः दोषाणामन्वयो यस्येति
बोध्यम् । स्वभावमलिनं तमः, मित्रेण सूर्येण आप्तेन च, राज्ञा
चन्द्रेण च नृपेण च, 'राजा प्रभौ नृपे चन्द्रे' इत्यमरः । दण्ड्यं -
निवर्त्य, अन्यत्र शिक्षणीयं विदुः । इलेपनिबन्धनोऽयमप्रस्तुतप्रशं-
सालंकारः ॥
 
दुर्जनाः स्वयं दुर्वृत्ताः सन्तः सद्वृत्तानेव लज्जापयन्तीत्याह-
 
जातिमात्रशरणा बहिष्कृताः
केचिदाहतजघन्यवृत्तयः ।