This page has not been fully proofread.

३६
 
सुभाषितनीव्यां
 
:
 
स्तेषाम् ; 'वेदचक्षुः सनातनः इत्युक्तेः श्रुतिचक्षुः शब्दस्य पर-
मात्मपरत्वम् । यद्वा अभिन्नमविचारितं श्रुतिचक्षुः चक्षुः सदृशश्रु-
तिर्यैस्ते तथोक्तास्तेषाम्; 'श्रुतिस्मृती तु विप्राणां चक्षुषी द्वे विनिर्मिते
इत्युक्तेः श्रुतेश्चक्षुः सदृशत्वं, अधर्मेण धर्मभिन्नेन काम्यकर्मणा, अन-
भिसंहितफलो भगवत्प्रीणनैकप्रयोजनतया अनुष्ठीयमानः शास्त्रविहितां
धर्मः, तद्भिन्नोऽधर्म एव; धर्मेण पापमपनुदतीत्यत्राभिसंहितफलस्य
धर्मस्यापि पापत्वाभिधानात् । आर्जितः भोगः स्वर्गाद्यनुभवो
येषां ते तथोक्तास्तेषामाशीरपि अहितोचिता हितोचिता न भवत,
श्रेयःसाधनाय न समर्थेत्यर्थः । अत्र निदर्शनं-- अविषु पर्वतेषु अव-
स्थिता वृत्ता वर्तुलाश्च तेपां अभिन्नश्रुतिचक्षुषां चक्षुश्रवत्स्वात्
अधर्माय परहिंसाये आर्जितः भोगः शरीरं येषां तेषाम् ; सर्पाणामि
त्यर्थः । ' अहेः शरीरं भोगः स्यात्' इति निघण्टुः । आशीष्ट्रापि,
अहितायाः सर्पत्वस्य उचिता योग्या, 'आशीरुरगदंष्ट्रायां शुभवा-
क्याभिलाषयोः' इति विश्वः ॥ ८ ॥
 
,
 
असद्वृत्तेरारोपमात्रेणापि मान्यो न भवतीत्याह-
 
दुष्टैरारोपितः कश्चिदनर्थक्रिययान्वितः ।
असत्कारेण गृह्येत विरुद्ध कारवेदिभिः ॥ ९ ॥
 
दुष्टैरारोपित इति ॥ दुष्टैः दुर्जनैः अनर्थक्रियया अनर्थहेतुव्यापा
रेणान्वितः सन्नारोपितः कश्चित् विरुद्धाकारवेदिभिः आरोपिताकारज्ञैः
असत्कारेण अबहुमानेन गृह्येत दुष्टदोषयुक्तेरिन्द्रियैः, अनर्थक्रियया