This page has not been fully proofread.

दुर्वृत्तपद्धतिः ।
 
संव्यवहारो भवेत् ; नो चेद्बहिष्कार्यतैवेत्यभिप्रायेणाह ---
द्विजस्य सितपक्षस्य कवेरपि निरस्यते ।
 
३५
 
न हंस इति साजात्यं गतिशब्दितवृत्तिभिः ॥ ७ ॥
 
द्विजखेति ॥ मातृगर्भादण्डरूपेण जननं, पुनरण्डात्करचरणादि-
विशिष्टरूपेण जननमिति द्विजस्य, सितपक्षस्य श्वेतगरुतः, के उदके
मंचरन् विः पक्षी कविः, तस्यापि गतिशब्दितवृत्तिभिः हंस इति
माजात्यं न निरस्यते, हंसस्य हंसान्तरेण साजात्यं, गतिशब्दितवृ-
त्तिभिः एकस्य हंसस्य यादृशी गतिर्यादृशः शब्दो यादृशी जीविका
तादृशमन्यस्याप्यस्ति चेत् हंस इत्युच्यते, न द्विजत्वसितपक्षत्वक-
वित्यैः, द्विजस्य सितपक्षस्य कवेर्बकस्य तादृशगतिशब्दितवृत्त्यभावेन
हंमत्वाभावादिति भावः । अप्रस्तुतप्रशंसालंकारः ॥ ७ ॥
विरुद्धाचाराणां आशीरपि न श्रेयः साधनमित्याह--
 
अव्यवस्थितवृत्तानामभिन्नश्रुतिचक्षुषाम् ।
अधर्मार्जितभोगानामाशीरप्य हितोचिता ॥ ८ ॥
 
"
 
अव्यवस्थितेति ॥ अथ यदि ते कर्मविचिकित्सा वा वृत्तवि-
चिकित्सा वा स्यात्, ये तत्र ब्राह्मणाः संमर्शिनः, युक्ता आयुक्ताः,
अदक्षा धर्मकामाः स्युः, यथा ते तत्र वर्तेरन्, तथा तत्र
वर्तेथा: इत्युपदेशमार्ग विहायाव्यवस्थितचरित्राणां ; अभिन्नः
जीवात्मना एकीभूतः, श्रुतिचक्षुः परमात्मा, येषां ते तथोक्ता-
 
::