This page has not been fully proofread.

३४
 
सुभाषितनीव्यां
 
दोषोद्घाटनस्यानुचितत्वात्सहृदयस्येति भावः । दन्तसमाधिरत्र गम्यते,
द्विजो दन्तः, 'दन्तविप्राण्डजा द्विजाः' इत्यमरः । कृछ्रात् अतिप्रया-
सात्, प्ररूढ: उत्पन्नः, अधरेण अधरोष्ठेन; शेषं स्पष्टम् ॥ ५ ॥
 
कश्चिदुदरपोषणार्थं परिशुद्ध इवाभिनयन् डाम्भिको भवति, ताह
शैः 'हैतुकान् बकवृत्तींश्च वाङ्मात्रेणापि नार्चयेत्' इति संभाषणा-
दिकमपि न कुर्यादित्यभिप्रेत्याह-
 
जोषमेकपदे स्थित्वा संनिकृष्टान्क्षणाद्वसन् ।
बहिर्दर्शित संशुद्धिर्बको ऽप्याहारमईति ॥ ६ ॥
 
जोषमिति । बहिर्दर्शितसंशुद्धिः स्नानादिना वैशिष्ट्यमभिन-
यन्नित्यर्थः ; एकपदे एकचरणे, जो मौनेनान्वितः, स्थित्वा
योगं कुर्वाण इव, मौनमाश्रित्यैकपादेन स्थित्वेत्यर्थः । सन्निकृष्टान्
यैः कैश्चिदयं महान्योगीति भक्त्या समर्पितान् उपहारान् क्षणादवि-
लंबेन घसन् गृह्णन्, बकोऽपि बकब्राह्मणोऽपि, आहारमर्हति आहार
लब्धुं योग्यो भवतीत्यर्थः । तादृशनिकृष्टवृत्त्यापि स्वोदरपूरणमेव,
न परसंरक्षणमित्यभिप्रायेणाहारमर्हतीत्युक्तम् । ' यस्मिन् जीवति
जीवन्ति बहव: स तु जीवति । बकोऽपि किं न कुरुते चंच्चा स्वोद-
रपूरणम्' इत्यपिशब्देन ज्ञापितम् । अत्र बकसमाधिः ; सन्निकृष्टान्
मत्स्यादीन् ; एकपदे युगपत् ; अव्ययमेतत् ; घसन् भक्षयन् ॥ ६॥
 
द्विजस्य परिशुद्धसहायस्य पण्डितस्यापि समीचीनव्यवहारः समी-
चीनवाक् समीचीनजीवनं च विद्यते चेत् शिष्टैः सह शिष्टत्वेन