सुभाषितनीवी /51
This page has not been fully proofread.
दुर्वृत्तपद्धतिः ।
।
पततां हन्त केषांचिद्भजते मलिनात्मनाम् ।
विशुद्धवर्णयोगोऽपि विपरीतनिमित्तताम् ॥ ४ ॥
३३
पततामिति ॥ मलिनात्मनां दुराचाराणां, अत एव पततां
द्विजातिकर्मभ्यो हानिः पतनं तद्वताम् ; विशुद्धवर्णयोगः ब्राह्मणजा-
तियोगः, विपरीतनिमित्ततां अत्यन्त निकृष्टताहेतुताम् भजते । यथा
मलिनात्मनां श्यामवर्णानां पततां वृक्षेभ्यः संसतां केपांचित्पत्ता-
'णामित्यर्थः, विशुद्धवर्णयोगः पाण्डुत्वयोगः, विपरीतनिमित्ततां पाण्डु
पत्रविरुद्ध किसलयादिनिमित्ततां भजते – इति पत्रसमाधिः । पततां
स्कन्धफालादिदेशे पतनत्रतां, मलिनात्मनां शिरोरुहाणां, विशुद्धवर्ण-
योगो जराशौक्ल्यं, विपरीतनिमित्ततां वृद्धताज्ञापनद्वारा मरणज्ञाप-
कताम् भजते इति शिरोरुहसमाधिर्वा बोध्यः ॥ ४ ॥
,
-
दुराचारोऽपि प्रायश्चित्तेन शुद्धश्चेत् केनाप्यनुगृह्यत इत्याह--
पतनानन्तरं कुछ्रात्प्ररूढः शुद्धिमानपि ।
द्विजः संछाद्यते कश्चिदधरेणापि रागिणा ॥ ५ ॥
पतनेति । द्विजातिकर्मभ्यो हानिः पतनं तदनन्तरम्, कृछ्रात्
कृछ्रादिप्रायश्चित्तात्, प्ररूढः पुनर्द्विजत्वापादक संस्कारैरुत्पन्नः, अत
एव शुद्धिमान्, द्विजेोऽपि कश्चित्, रागिणा प्रीतिमता, अधरेणापि,
शास्त्राभिज्ञेनानुगृह्यत एव तदनभिज्ञेन पामरेणापीत्यपिशब्दार्थः । सं-
छाद्यते, पतितोऽयमिति न प्रकाश्यत इत्यर्थः । 'गुणदोषौ बुधो गृह्णन.
इन्दुक्ष्वेलाविवेश्वरः । शिरसा श्लाघते पूर्वे परं कण्ठे नियच्छति' इति
3