This page has not been fully proofread.

३२
 
सुभाषितनीव्यां
 
द्विजेति । द्विजराजाङ्के ब्राह्मणश्रेष्ठसमीपे, संस्था स्थितिर्यस्य स
तथोक्तः ;
'अङ्कः स्थानान्तिका मर्षरूपकोत्सङ्गलक्ष्मसु ' इति विश्वः,
' संस्थाऽचारे स्थितौ मृतौ' इत्यमरः । यद्वा द्विजराजाङ्के संतिष्ठत
इति संस्थः, सुपि स्थ इति कः । सन्मार्गाचारवानपि, स्पष्टं; अन्यत्र
चन्द्रोत्सङ्गवर्त्यपि ; सन्मार्गे नक्षत्रमार्गे, आ समन्ताच्चारवान् संचार-
वानित्यर्थः । विशुद्धिरहितः परिशुद्धिरहितः कश्चित्, न विद्यते
कलङ्कोऽपवादो यस्य तस्य भावस्तत्ता ताम्, अन्यत्र अचिह्न
रूपत्वं ; 'कलङ्कोऽङ्कापवादयोः ' इत्यमरः । न विन्दति न प्राप्नोति,
सापवादत्वमेव प्राप्नोतीत्यर्थः ॥ २ ॥
 
सरलहृदयोऽपि तारकमन्त्रोपासकोऽपि परिपूर्णप्रियभाग्येोऽपि,
शुभाचारं परित्यज्य, नरकपतनमेव भजतीति – 'गोभिः पशुभिरश्वैश्च
कृष्या च सुसमृद्धया । कुलानि न प्ररोहन्ति यानि हीनानि वृत्ततः ।
वृत्तं यत्नेन संरक्षेद्वित्तमेति च याति च । अक्षीणो वृत्ततः क्षीणो
वृत्ततस्तु हतो हतः । ' इत्युक्तरीत्याह-
 
--
 
अवक्रस्तारकाधीशः परिपूर्णप्रियोदयः ।
 
प्राचीं दिशमतिक्रम्य पतनं प्रतिपद्यते ॥ ३ ॥
 
अवक्र इति ॥ प्राचीं दिशं शुभाचारं पूर्वककुभं च ॥
 
दुराचाराणां श्रेष्ठब्राह्मण्यादिजातियोगोऽपि प्रत्यवायभूयस्त्वाये -
 
त्याह-