This page has not been fully proofread.

दुर्वृत्तपद्धतिः ॥
 
:
 

 
'आचारहीनं न पुनन्ति वेदा यद्यप्यधीताः सह षड्भिरङ्गैः ।
छन्दांस्येनं विजहत्यन्तकाले नीडं शकुन्ता इव जातपक्षाः, '
विद्यया केवलया तपसा वापि पात्रता । यत्र वृत्तमिमे चोभे तद्धि
पात्रं प्रचक्षते ॥', 'सर्वागमानामाचारः प्रथमं परिकल्प्यते,' 'कुलमा-
चारकर्मणा' इत्यादिभिर्वृत्तस्यावश्यकत्वमभिप्रेत्याह-
 
गुणजालप्रकर्षेऽपि धीवरत्वेऽपि जन्मतः ।
सर्वतीर्थावगाहेऽपि नीचवृत्तिर्न शस्यते ॥ १ ॥
 
गुणाति ॥ गुणजालानां गुणसमूहानां प्रकर्षेऽपि गुणयुक्ता-
नायानामाधिक्येऽपि ; 'जालं समूह आनाये ' इत्यमरः । जन्मतः
जन्मप्रभृतीत्यर्थः, धीवरत्वेऽपि बुद्ध्या श्रेष्ठत्वेऽपि ; जन्मत: जात्या
कैवर्तत्वेऽपि, 'कैवर्ते दाशधीवरौ ' इत्यमरः । सर्वतीर्थेषु सर्वपुण्योदकेषु
अवगाहेऽपि जलावतारस्थानेषु अवगाहनेऽपि, 'निपानागमयोस्तीर्थ-
मृषिजुष्टजले गुरौ' इत्यमरः । नीचवृत्तिः निकृष्टाचारः निम्नदेशस्थि-
 
कैवर्तानां मत्स्यग्रहणाय निम्नदेशस्थितत्वात् ; न शस्यते न स्तू-
 
तिश्च,
 
यते, अतिशयावहं न भवतीत्यर्थः । अत्र कैवर्तसाम्यध्वनिः ॥ १ ॥
 
द्विजराजाङ्कसंस्थोऽपि सन्मार्गाचारवानपि ।
विशुद्धिरहितः कश्चिन विन्दत्यकलङ्कताम् ॥ २ ॥