This page has not been fully proofread.

खलपद्धतिः ।
 
२९
 
उष्णे शीतलतामुपेत्य शिशिरे प्राप्ते भजन्त्युष्णतां
कामान्तःपुरचेटिकाकुचतटीकाठिन्यवन्तः खलाः ॥
 
इति श्रीकवितार्किक सिंहस्य सर्वतन्त्र स्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य
 
कृतिषु सुभाषितनीव्यां
खलपद्धतिः
तृतीया ॥
 
: मुक्त-
 
मुक्ताहारेति । कामान्तःपुरचेटिकानां मन्मथान्तः पुरस्त्रीणाम्,
कुचतटीनां यत्काठिन्यं, तद्वन्तः, तादृशकाठिन्यवन्त इत्यर्थः ; अति-
काठिन्यद्योतनाय कामान्तः पुरेति विशेषणं, तासामतिसौन्दर्येणातिक-
ठिनकुचवत्त्वादिदमतिशयोक्तिरूपम्। खलाः दुर्जनाः, , मुक्ताहारै:
जीवनैः अविद्यमानजीवनैः, निषेविता अपि तद्वृत्त्यै तजीवनाय, अन्तरं
अवकाशम्, न दिशन्ति; कुचाश्च मौक्तिकहारैर्निषेविताः तद्वृत्त्यै मुक्ता-
हारस्थित्यै, अन्तरं स्थानम्, न दिशन्ति, परस्पर श्लिष्टत्वादिति भावः ।
बन्धे कारागृहादिबन्धने, गाढविमर्दने जानुभिर्मुष्टिभिः सम्यक्ताडनेऽ-
पि, अन्यत्र कञ्चुकबन्धने करविमर्दने च, अन्योन्यसंपीडनं परस्परोप-
द्रवकरणं परस्परसंघर्पणं च न त्यजन्ति । उष्णे स्वापेक्षयाऽधिकवले
ग्रीष्मकाले च, शीतलतां सौम्यतां शैत्यं च, उपेत्य, शिशिरे सौम्ये
शीतकाले च, उष्णतां क्रूरहृदयत्वं औष्ण्यं च भजन्ति; 'कूपोदकं