सुभाषितनीवी /46
This page has not been fully proofread.
6
२८
सुभाषितनीव्यां
विधिसिद्धनैकगुणसस्यसम्पदां
विरसस्वभावकठिनैरलं खलैः ॥ ११ ॥
"
अधिकेति॥ अधिकोन्नतैः अत्यन्तगर्वितैः, उन्नतैश्च खलान् कि-
लोन्नतभूमौ कुर्वन्ति; सुदारुणैः अतिक्रूरैः अन्वितैः सहवसद्भिः, अन्यत्र
सुदारुणेति व्यस्तं पदं तृतीयान्तम्, शोभनकाष्ठेन पशुबन्धनार्थं निखा-
तेन, अत एव 'खलेवाली यूपो भवति' इति वेदेऽप्युक्तम्; असकृत्
अनेकवारं पुनः पुनश्च, भ्रमन्तो ये पशुगणाः जनसमूहाः, ' एतावन्तो
वै पशवो द्विपादश्चतुष्पादश्च' इति मनुष्याणामपि पशुत्वेनाभिधानात्
'पशवः पाशिताः पूर्व' इति प्रयोगाच्च ; तेषामङ्गिभिः पीडितैः,
दुर्जना हि सर्वत्र प्रतिकूलाचरणेन सर्वैः पादेन हन्यन्ते, असकृत्पीडि-
तैरिति संबन्धः । विरसस्वभावेन निर्दयस्वभावेन कठिनैः दाक्षिण्यर-
हितैः, अन्यत्र अनार्द्रस्वभावाः घनीभूताः कठिनाश्च तैः, खलैर्दुर्जनैः
धान्यमर्दनभूमिदेशैश्च । विधिसिद्धाः शास्त्रसिद्धाः, नैके अनेके, गुणाः
सस्यसम्पद इव येषां ते तथोक्तास्तेषाम्; अन्यत्र विधिसिद्धाः भाग्य-
सिद्धाः नैकगुणाः सस्यसम्पदो धान्यानि येषां तेषां च, अलं प्रयोजनं
नास्तीत्यर्थः, कृषिसंपादितधान्यानामेव खलापेक्षा नान्येषामिति भावः ।
निषेधक्रियां प्रति करणत्वात् खलैरिति करणे तृतीया ॥ ११ ॥
पुनश्चेदृशस्वभावाः खला इत्याह-
मुक्ताहारनिषेविता अपि न तद्वृत्त्यै दिशन्त्यन्तरं
बन्धे गाढविमर्दनेऽपि न जहत्यन्योन्यसंपीडनम् ।