This page has not been fully proofread.

खलपद्धतिः ।
 
२७
 
ह्णाति निग्रहस्थाने न दूषयति, सोऽपि सभ्यैः मध्यस्थैः निगृह्यते
 
दूयते ॥ ८ ॥
 
निगिरन्तो जगत्प्राणानुद्भिरन्तो मुखैर्विषम् ।
दूरतः परिहर्तव्या द्विजिहा जिह्मवृत्तयः ॥ ९ ॥
 
निगिरन्त इति ॥ ' अहो खलभुजङ्गस्य विचित्रोऽयं वधक्रमः ।
अन्यस्य दशति श्रोत्रमन्यः प्राणैर्वियुज्यते ॥' इत्युक्तरीत्या जगत्प्राणा-
न्वायून्, निगिरन्तो ग्रसन्तः, मुखैर्विषमुद्गिरन्तः परानिष्टसूचनमुद्व-
मन्तः, जिह्मवृत्तयः कुटिलवृत्तयः, द्विजिह्वाः सूचका एव सर्पाः.
दूरतः परिहर्तव्याः, 'द्विजिह्रौ सर्पसूचकौ' इत्यमरः । श्लेषमूलकाभे-
दाध्यवसायनिबन्धनातिशयोक्त्यलंकारः ॥ ९ ॥
 
अकिंचित्कारिणां दुर्जनानां दर्शनस्पर्शनादिकं च पापाय भव-
तीत्याह-
 
अकिंचित्कारिणां दीनैराकृष्टगुणकर्मणाम् ।
अघाय गतसत्त्वानां दर्शन स्पर्शनादिकम् ॥ १० ।
अकिश्विदिति ॥ गतसत्त्वानां गतसत्त्वगुणानां गतासूनां च;
'द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु ' इत्यमरः । स्पष्टमन्यत् ॥
 
दुर्मार्गसङ्गः परिहर्तव्य इत्याह-
 
-
 
अधिको तैरपि सुदारुणान्वितै-
रसकृद्धमत्पशुगणाङ्घ्रिपीडितैः 1:1