This page has not been fully proofread.

२६
 
सुभाषितनीव्यां
 
'
 
कापेयेन अनवस्थितचित्तत्वेन, कलहानां परैः स्पर्धानाम्, उचितः
परिचयवान्, भवतीति शेषः । अनेकानि मुखानि यस्य स पापात्मा
रावणः, छद्मसंदर्शिताश्रमः, कर्बुरप्रकृतिः राक्षसप्रभवः कश्चित्,
कापेयकलहोचितः वानरयुद्धयोग्यः, कपिज्ञात्योर्द्धगिति भावार्थे
कपिशब्दाठ्ठक् । कापेयं कपित्वं, कपिजातिः ; तत्संबन्धिकलह
इत्यर्थः ॥ ७ ॥
 
' श्रेष्ठोऽर्धे तु हरेत्तत्र भवेत्पादश्च कर्तरि । पादस्तेषु सभासत्सु
यत्र निन्द्यो न निन्द्यते । यथाशक्ति निगृह्णीयाद्देवतागुरुनिन्दकान् ॥'
इति धर्मशास्त्राद्दुर्जनो निन्द्यत इत्याह-
 
छलिनं सत्कथानर्हे स्वात्मोपहतजातिकम् ।
 
न निगृह्णाति यः काले सोऽपि सभ्यैर्निगृह्यते ॥ ८ ॥
 
छलिनमिति । छलिनं— कैतववन्तम्, स्वात्मना उपहता
विरुद्धाचारेण नाशिता, 'कुलमाचारकर्मणा' इत्युक्तेः ; तादृशी
जातिः यस्य तं, अत एव सत्कथानर्ह सद्गोष्ठयामयोग्यम् ; काले
निग्रहोचितसमये, यो न निगृह्णाति सोऽपि सभ्यैर्निगृह्यते । अत्र
निदर्शनं— छलिनं केन चिदभिप्रायेण प्रयुक्तस्य शब्दस्याभि-
प्रायान्तरं परिकल्प्य दूषणाभिधानं छलं, तद्वन्तं, असदुत्तरं जाति-
रिति दूषणं, तद्धि स्वव्याघातकत्वादिरूपं, अतः स्वात्मोपहतजातिक
उपहतस्वात्मकजातिकं ; नानावक्तृकवाक्यसन्दर्भः कथा, सत्कथान
समीचीनवादकथाया अयोग्यम्; काले वादकाले, यो वादी न निगृ-