सुभाषितनीवी /43
This page has not been fully proofread.
खलपद्धतिः ।
२५
गम्यते; तरसा वेगेन, भिन्नाः सेतवः जलनिवारणार्थ बन्धाः शास्त्रमर्या-
दाश्च यैस्तादृशाः सन्तः, तटस्थान् वृक्षानपि निघ्नन्ति उन्मूलयन्ति, उ-
दासीन भूतानपि बाधन्ते इति गम्यते । श्लेषनिबन्धनेयमप्रस्तुतप्रशंसा ॥
'चण्डालमपि वृत्तस्थं तमेव ब्राह्मणं विदुः । द्विजातिमपि दुर्वृत्तं
चण्डालमित्र तं विदुः । ' इत्यनुसृत्याह--
---
केनचिद्दान्तकृत्येन कुलगोत्रविमर्दिना ।
मदेन बहुधा भिन्नं मातङ्गं मन्यते जनः ॥ ६ ॥
केनेति ॥ दान्तं दमितं, दमेर्ण्यन्ताद्वा दान्तशान्तेत्यादिना निपा-
तितः; निगृहीतमिति यावत्, तेन कृत्येन; दान्तं दन्तसंबन्धि तिर्यग्दन्त-
प्रहाररूपं कृत्यं तेन च ; कुलं ब्राह्मणादिकुलम्, गोत्रं स्त्रपूर्वपुरुषपर-
परा, तद्विमर्दिना तद्विरुद्धाचरणेन, कुलपर्वतभेदिना च; मदेन गर्वेण
मदोदन च; भिन्नं युक्तं स्रवणवन्तं च; जनः मातङ्कं चण्डालं
मन्यते ॥ ६ ॥
गजं च ;
अनेक मुखपापात्मा छद्म संदर्शिताश्रमः ।
कर्बुरप्रकृतिः कश्चित्कापेयकलहोचितः ॥ ७ ॥
अनेकेति ॥ अनेकमुखानि पापानि यस्य स तथोक्तः, तादृशः
आत्मा मन: यस्य स तथोक्तः ; छद्मना कपटेन लोकवञ्चनबुद्ध्या
संदर्शितः आश्रमः यस्य स तथोक्तः ; 'एकदण्डं समाश्रित्य जी-
वन्ति बहवो नराः' इत्युक्तेः । कर्बुरप्रकृतिः राक्षसप्रकृतिः, कश्चित्,