सुभाषितनीवी /42
This page has not been fully proofread.
२४
सुभाषितनीव्यां
न्नानां परेषां अन्येषां शत्रूणां च पीडार्थम् जायते । प्रकृताप्रकृत-
श्लेषः ॥ ३ ॥
केचिन्महाकुलोत्पन्ना अपि दुर्मार्गवृत्तिमाचरन्तीत्याह -
जनित्वाऽपि महागोत्रे निम्नगा वक्रचेष्टिताः ।
वैपरीत्यं वितन्वन्ति समेषु विषमेषु च ॥ ४ ॥
"
जनित्वेति । महागोत्रे महावंशे महापर्वते च; जनित्वाऽपि,
निम्नगाः पूर्वकर्मानुसारेण नीचमार्गगामिनः नद्यश्च; वक्रचेष्टिताः
कुटिलव्यापाराः, अनृजुप्रवाहाश्च समेषु समचित्तेषु विषमेषु दुष्ट
चित्तेषु च, वैपरीत्यं विरुद्धाचरणम्, वितन्वन्ति । 'यश्च निम्बं पर
शुना' इति न्यायेन सर्वत्र विरोधमाचरन्तीत्यर्थः । नदीपक्षे समदेशेषु
निम्नत्वौन्नत्यादिकं विषमदेशेषु समत्वनिम्नत्वादिकं चेत्यर्थः ॥ ४ ॥
इदमेव मुखान्तरेणाह-
उत्पथा दुर्मदाः केचिद्वहुभङ्गभ्रमाविलाः ।
तटस्थानपि निघ्नन्ति तरसा भिन्नसेतवः ॥ ५॥
उत्पथा इति । केचिद्दुर्नदाः भिनत्ति कूलमिति भिद्यः, उनत्ति
कूलमिति उद्यः, भिद्योद्यादिनदाः; उत्पथाः कूलान्तःस्थितमार्गमुल्ल-
वय उपरिगच्छन्तः, उद्वृत्ताचाराश्च; बहुभिर्भङ्गैः तरङ्गैः भ्रमैः आव-
तैंश्च आविलाः कलुषाः सन्तः, अन्यत्र बहुभिः भङ्गैः पराभवैः, 'खला-
नां कण्टकानां च द्वयमेवोचितं मतम् । उपानन्मुखभङ्गो वा दूरतो वा
विसर्जनम्॥' इत्युक्तेः ; भ्रमैः भ्रान्तिभिश्च आविलाः व्याकुलाः इति