सुभाषितनीवी /41
This page has not been fully proofread.
खलपद्धतिः 1: 1
२३
बुधान् । वक्ता पापमुपादत्ते क्षममाणो विमुच्यते ॥ ' इत्यादिकमनु-
सन्धेयम् ॥ १ ॥
आत्मार्थं युक्तवित्तानां मित्रमण्डलभेदिनाम् ।
अतिलङ्घितलोकानां न बन्धः केन चित्कचित् ॥ २ ॥
आत्मार्थमिति ॥ आत्मार्थ स्वार्थम्, परमात्मसमाराधनार्थ; युक्तं
संचितं वित्तं येषां ते तथोक्ताः तेषाम् ; मित्रमण्डलभेदिनां - मित्रसमूह-
भेदनशीलानाम्, सूर्यमण्डलभेदिनां च; अतिलङ्घितलोकानां -- अति-
लङ्घिता अवमानविषयीकृता अतिक्रान्ताश्च, लोका जना भूरादिलो
काश्च यैस्ते तथोक्तास्तेषाम् ; कचिदपि केनापि बन्धो निग्रहः यमबन्धनं
च, नास्ति । अत्रापि योगिसाम्यं गम्यते ; पूर्ववदभिप्रायः ॥ २ ॥
G
'दुर्जनस्य विशिष्टत्वं परोपद्रवकारणम् । उपोषितस्य व्याघ्रस्य
पारणं पशुमारणम् ॥ ' इतिवत् दुर्जनस्य गुणाः परपीडनायैवेत्याह-
स्नेहः शैत्यं प्रसादव कोशत्यागश्च जायते ।
आसन्न परपीडार्थ निस्त्रिंशस्यासितात्मनः ॥ ३ ॥
स्नेह इति ॥ असितः तमोमलिनः आत्मा मनः यस्य स तथोक्तः
तस्य, श्यामरूपस्य ; निस्त्रिंशस्य क्रूरस्य, खड्गस्य च, 'निस्त्रिंशो
निर्दये खङ्गे' इति विश्वः । स्नेहः सौहार्दम्, आयुधलेपनार्थद्रव्यवि-
शेषश्व; शैत्यं सौम्यत्वं निशितत्वं च प्रसादः अनुग्रहः, मार्जनसंस्का
रकृतस्वच्छता च; कोशत्यागः धनत्यागः चर्मपिधानत्यागश्च; आस-