सुभाषितनीवी /40
This page has not been fully proofread.
खलपद्धतिः ॥
अथ खलजनस्वरूपमाह
-
परचिन्तैकनिरताः पुत्रादिष्वप्यसङ्गिनः ।
योगिनामनुकुर्वन्ति विशृङ्खलधियः खलाः ॥ १ ॥
--
,
परेति । परेषां चिन्तायां दोपगवेषणे एकस्यामेव निरताः
'शुनां च पिशुनानां च परवेश्मप्रवेशने । प्रयोजनं न पश्यामः
पात्राणां दूषणादृते ॥', शिवभागवतवत्समासः ; अन्यथा चिन्तैक-
शब्दयोः प्रथमं समासे पूर्वकालैकेत्यादिना एकशब्दस्य पूर्वनिपातः
स्यात् । योगिविषये परस्य परमात्मनश्चिन्तायामेकस्यामेव निरताः ।
पुत्रादिष्वप्यसङ्गिनः एकत्र स्वोदरपोषणमात्रतत्परत्वेन, अन्यत्र
वीतरागत्वेन; विशृङ्खलधियः - शास्त्रीयनियमं परित्यज्य स्वतन्त्रबुद्धयः,
अन्यत्र विषयप्रतिबन्धरहितधियः ; खलाः, योगिनां अनुकुर्वन्ति सदृ-
शा भवन्ति । कर्मणः शेषत्वविवक्षायां षष्ठी । अत्यन्तविरुद्धयो-
ग्युपमानेन स्तुतिद्वारा निन्दा अभिव्यञ्जिता । यथा योगिनोऽत्युत्कृष्ट
धर्मवत्त्वेन मुक्तिस्थानं यन्ति, तथा एतेऽत्यन्तनिन्दितधर्मवत्त्वेन
नरकस्थानमिति किमेषां जन्मनेति शोच्यत्वं प्रतीयते । ' पररन्ध्रेषु
जात्यन्धाः परदारेष्वपुंसकाः । परीवादेषु ये मूकास्तेऽतीव दयिता
मम ॥' इति भगवद्वाक्यम् । 'आक्रोशपरिवादाभ्यां विहिंसन्त्यबुधा