सुभाषितनीवी /38
This page has not been fully proofread.
२०
सुभाषितनीव्यां
खलु, रोगी लवणसमुद्रपायी अगस्त्यो न भवति खलु । कण्ठे कल:
नादः। मशकस्याप्यव्यक्तमधुरध्वनिरस्ति, तावता मशकः क इव; कि-
नरपति:; इवशब्दो वाक्यालंकारे, इवैवादयो वाक्यपूरणार्थी इति
शब्दप्रकाशिकाकारवचनात् । वैधर्म्यनियमः कथंचित्साधम्र्म्यं न
क्षिपति, अविरोधित्वात् ; नैतावता तस्यान्यदीयोत्कर्षप्राप्तिरिति
भावः ॥ ११ ॥
दृप्तः सासूयतया परश्रेयोऽसहिष्णुत्वेन परायखत्वेऽपि स्वस्यैवा.
शतावहत्वमावहतीत्यभिप्रेत्याह-
निमीलयतु लोचने न हि तिरस्कृतो भास्करः
श्रवः स्थगयतु स्थिरं परभृतः किमु ध्वाङ्क्षति ।
स्वयं भ्रमतु बालिशो न खलु बम्भ्रमीति क्षितिः
कदर्थयतु मुष्टिभिः कथय किं नभः क्षुभ्यते ॥
इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य
कृतिषु सुभाषितनीव्यां
दृप्तपद्धतिः
द्वितीया ॥
निमीलयत्विति ॥ स्वयं सूर्ये असहिष्णुत्वेन लोचने निमीलयतु,
भास्करो न तिरस्कृतो हि । श्रवः श्रोत्रं कोकिलध्वनावसहिष्णुत्वेन