सुभाषितनीवी /37
This page has not been fully proofread.
दृप्तपद्धतिः ।
१९
;
सुदर्शनभृता कश्चिदजहत्कीर्तिमत्सरः ।
महाशान्तपदाकर्षी जलजन्तुर्निगृह्यते ॥ १० ॥
सुदर्शनेति । सुदर्शनभृता सौम्यदर्शनवता चक्रधरेण च । अजहत्
अपरित्यजन् कीर्ती परकीययशसि मत्सरो द्वेषो यं स तथोक्तः
नक्रपक्षे अजहत् कीर्तिमत् सर इति पदत्रयम्, कीर्तिमत् कर्दमवत्
सर: अजहत् अत्यजन्नित्यर्थः, नाभ्यस्ताच्छतुरिति शतुर्नुमभावः
'कीर्तिः प्रसादयशसोर्विस्तारे कर्दमेऽपि च' इति विश्वः । महाशान्ता-
नां साधुजनानां पदाकर्षी स्थानापहारकः, गजेन्द्रपदाकर्षी च ; जल-
जन्तुर्जडजनः नक्रश्च, निगृह्यते । प्रकृताप्रकृत श्लेषालंकारः ॥ १० ॥
दृप्तविनीतयोरत्यन्तवैधर्म्यात् कथंचित्साधर्म्यसत्त्वेऽपि न तुल्यते-
व्यभिप्रायेणाह---
गतिव्यम्ना किं तद्गुरुडमभिटङ्केत चटकः
पिबत्वम्भः क्षारं न खलु कलशीसूनुरलसः ।
कलः कण्ठे नादः क इव मशकः किन्नरपतिः
कथंचित्साधर्म्यं क्षिपति न हि वैधर्म्यनियमः ॥
गतिरिति ॥ गतिर्व्योम्ना, गरुडस्य चटकस्य च आकाशे गमनम-
स्ति ; तत् चटकः कलविङ्कः, गरुडमभिटङ्केत किं अभियायार्तिक ;
तावन्मात्रेण चटकस्य किं गरुडसामर्थ्यमस्तीति भावः । अलसः उदर-
शूलादिरोगवान्, क्षारं अम्भः लवणमिश्रं उदकम्,
पिबतु ;
'क्षारो
रसान्तरे धूर्ते लवणे कचभस्मनोः' इति विश्वः ; तावता कलशीसूनुर्न