This page has not been fully proofread.

१८
 
सुभाषितनीव्यां
 
मपि धुरं शकटावयवं वहन्तीति धुर्याः, तेषामपि च; 'धुरो यदुकौ '
इति यत्प्रत्ययः । गुणैः शालन्ते प्रकाशन्त इति गुणशालिनः, शाड़-
श्लाघायामिति धातोर्णिनिप्रत्यये लडयोरभेदव्यपदेशमाश्रित्य लका-
रप्रयोगः, तान्विमर्दयन्ति पीडयन्तीति विमर्दिनः तेषां; गुणेन आवृ-
त्या शालीन् व्रीहिसस्यानि विमर्दयन्ति भक्षयन्तीति तथोक्तास्तेषामिति
च । अनागमविदां शास्त्रानभिज्ञानाम्, पुनरागमनमजानतां च ।
अपनीतेः अपन्यायाद्धेतोरपसारणाच्च, निवारणं युक्तम् । अत्र दृतेषु
सस्यलुण्टाकवृषभव्यवहारप्रतीतेः समासोक्तिः ॥ ८ ॥
 
बलोत्तरेण हरिणा नागमल्लविभेदिना ।
 
सृगालः साम्यमाकाङ्क्षन् शौर्याधिक्यं न विन्दति ॥
 
बलेति ॥ बलोत्तरेण बलाधिकेन, बलभद्रानुजेन च; नागम-
ल्लविभेदिना गजश्रेष्ठभेदिना कालीयचाणूरमल्लविभेदिना च ; हरिणा
सिंहेन कृष्णेन च । सृगालः जम्बुको राक्षसश्च, पौण्ड्रकवासुदेव
इत्यर्थः । 'सृगालौ दैत्यजंबुकौ ' इति रत्नमाला, 'सृगालो जम्बुके
दैत्ये' इति विश्वश्व । साम्यमाकाङ्क्षन् ; शौर्याधिक्यं शौर्याति-
 
शयम्,
 
शौरेराधिक्यं च न विन्दति । अत्र क्षुद्रो गर्ववशान्महद्भिः
 
i
 
संघर्षे कुर्वन् तदुत्कर्षे न प्राप्नोतीत्यर्थे वर्ण्यमाने, अप्रस्तुतः सिंह-
जम्बुकवृत्तान्तो वर्णितः ; तथा हरिपौण्डूकवासुदेववृत्तान्तो ऽप्यप्रस्तुतो
वर्णित इति अप्रस्तुत श्लेषमूलको प्रस्तुतप्रशंसालंकारः ॥ ९ ॥
 
एतादृशो दृप्तः केनचित्सत्प्रभुणा निगृह्यत इत्याह-