This page has not been fully proofread.

,
 
दृप्तपद्धतिः ।
 
१७
 
दष्टसारङ्गेति ॥ दष्टः सारङ्गयूथो मृगयूथो गजयूथश्च येन स
तथोक्तः, दंष्ट्रा नखराश्च अस्य सन्तीति तथेोक्तः । भूभृत्कटकं राज-
शिविरम् पर्वतनितम्बश्च तत्र संस्थः स्थितोऽपि ; सुपिस्थ इत्यत्र
सुपीति योगविभागात् कर्तरि कः, स्थ इत्यस्यारम्भसामर्थ्याद्भावे
विधानांत् । सारमेयः शुनकः, न सिंहति सिंह इत्र नाचरति ; सर्वप्रा-
तिपदिकेभ्यः क्विब्वेति आचारे क्विप्, ततो धातुत्वाल्लट् ॥ ६ ॥
 
राहुः
 
मित्रमतिक्रामन् शुभान्यलभमानो नष्टो भवेदित्यभिप्रायेणाह-
सत्पथं छादयन्मित्रमपि व्यालस्तमोमयः ।
अतीतपर्वा जगतामदृश्यः सहसा भवेत् ॥ ७ ॥
 
सत्पथमिति । सत्पथं सन्मार्गवर्तिनं आकाशवर्तिनं च, मित्रं
सहायं सूर्य च, छादयन्, तमोमयः तमः प्रचुर: राहुरूपश्च ; 'तमस्तु
: स्वर्भानुः ' इत्यमरः । व्यालः क्रूरः सर्पश्च ; ' व्यालो भुजङ्गमे
क्रूरे श्रापदे दुष्टदन्तिनि' इति विश्वः । अतीतानि पर्वाणि उत्सवा यस्य
स तथोक्तः, शुभरहित इत्यर्थः ; अतीतं पर्व अमावास्यारूपं यस्य स
इति च । सहसा अदृग्यो भवेत् नष्टो भवेत्, अप्रत्यक्षो भवेच्च ॥७॥
 
दुर्मार्गाणां त्याग एव युक्त इत्याह-
 
धुर्याणामपि सत्कार्ये गुणशालित्रिमर्दिनाम् ।
अनागमविदां युक्तमपनीतेर्निवारणम् ॥ ८ ॥
 
धुर्याणामिति । सत्कायें समीचीनप्रयोजने धुर्याणां धुरन्धराणा-
 
'
 
S2