सुभाषितनीवी /34
This page has not been fully proofread.
१६
सुभाषितनीव्यां
अपि सत्पथनिष्ठानामाशाः पूरयतामपि ।
अगस्त्यवृत्तिर्मेघानां हन्त मालिन्यकारणम् ॥ ४॥
अपीति ॥ सत्पथनिष्ठानां आकाशवर्तिनां, सदाचारवतामिति
च गम्यते । आशा दिशः पूरयतां, अपेक्षितार्थान् ददतामिति च
गम्यते । मेघानामगस्त्यवृत्तिः समुद्रोदकपानं, मालिन्यस्य नैल्यस्य
कारणं, हन्तेति खेदे ॥ ४ ॥
कश्चित्केनचिद्विशेषेणाधिकोऽपि भवतु ; तथापि सर्वस्य साति-
शयत्वान्न गर्ववता भवितव्यमित्यभिप्रेत्याह—
अस्तु तावदगस्त्येन जहोर्महिमनिह्नवः ।
का कथा तस्य बालस्य विश्वग्रासेऽप्यतृप्यतः ॥ ५ ॥
अस्त्विति ॥ जमुनिना गङ्गा पीता, तदेवाश्चर्यमभूत् । अगस्त्येन
सकलसमुद्रान् करतलपुटगतान् कृत्वा पिबता जह्नोर्महिमनिह्नवः
तावदस्तु ततोऽप्याश्चर्यावहमिदमप्यद्भुतचरित्रं तिष्ठतु । विश्वमासेऽपि
प्रलये सर्वे ग्रसित्वापि अतृप्यतः, तस्य बालस्य प्रसिद्धस्य वटपत्रश -
यिनः, का कथा तन्महिम्नि किं वक्तव्यम् । ततोऽप्यत्यद्भुतमिदम् ।
अतस्तद्विचार्य न हप्तेन भवितव्यमिति भावः ॥ ५ ॥
कतिपयधर्ममात्रेणान्यसाम्यं न लभ्यत इत्याह-
दष्टसारङ्गयूथोऽपि दंष्ट्रानखरवानपि ।
भूभृत्कटकसंस्थोऽपि सारमेयो न सिंहति ॥ ६ ॥