This page has not been fully proofread.

दृप्तपद्धतिः ।
 
महतां स्थानवर्तित्वमात्रेणापि न तन्माहात्म्यं लभ्यत इत्याह-
 
अण्डजाः पुण्डरीकेषु समुद्रेषु जनार्दनाः ।
नीलकण्ठा शैलेषु निवसन्तु न तेन ते ॥ २ ॥
 
१५
 
अण्डजा इति ॥ पुण्डरीकेषु अण्डजा हंसा निवसन्तु, नैतावता
पुण्डरीकवर्ती अण्डजो ब्रह्मा भवति । समुद्रेषु जनार्दना जन्तुविशेषा
निवसन्तु, नैतावता समुद्रशायी विष्णुर्भवति । नीलकण्ठा मयूराः
शैलेषु निवसन्तु, नैतावता कैलासनिवासः शिवो भवति । तदेवाह-
न तेन त इति । तेन तन्नाम धृत्वा तत्स्थानाक्रमणेन हंसजनार्दन-
मयूरास्ते ब्रह्मविष्णुशिवाः न भवन्ति ॥ २ ॥
 
गर्ववशेन परकीयवेषधारणेऽपि परगतपाण्डित्यादिकं न संपाद-
यितुं शक्यत इत्यभिप्रेत्याह-
 
कामं लिखतु संस्थानं कश्चिद्रूपं च भास्वतः ।
अभित्तिविहितालम्बमालोकं विलिखेत्कथम् ॥ ३ ॥
काममिति । कश्चित् शिल्पी, भास्वतः सूर्यस्य, संस्थानं त्रिम्बम्
लिखतु चित्रे लिखेत्, रूपं अरुणरूपं च लिखेत्; भित्त्या विहित आ-
लम्बः आलम्बनं यस्य स तथोक्तः, स न भवतीत्यभित्तिविहितालम्बः,
तम् । आलोकं प्रकाशं, कथं विलिखेत् । भित्त्यालम्बनत्वाद्विम्बादिकं
लिखेत्, तेजस्त्वनालम्बनत्वात् कथं विलिखदिति भावः ॥ ३ ॥
 
अल्पस्य साम्यार्थे महाजनसंबन्ध्यसाध्यकृत्याचरणानुकरणमयश:-
कारणमित्यभिप्रेत्याह-