This page has not been fully proofread.

दृप्तपद्धतिः ॥
 
दुर्विदग्धाः केचन परोत्कर्षासहिष्णवः परसाम्यलाभाय तद्धर्मान-
भिनयन्ति, नैतावता 'सुमेरुशिखरस्थोऽपि काकः किं गरुडायते ?'
इति न्यायेन तदीयोत्कर्षः संभवति, तेषां च निकर्षः संभवति इत्य-
भिप्रायेण दृप्तपद्धतिरारभ्यते ॥
 
तदेव गृह्यतां नाम च्छागमण्डूकरासभैः ।
 
तिसृणां तावता हन्त मूर्तीनां किमिहागतम् ॥ १ ॥
 
तदेवेति ॥ छागमण्डूकरासभैः तदेव त्रिमूर्तिसंबन्ध्येव नाम गृह्य-
तां, कामचारे कर्मणि लोट् । छागेनाज इति ब्रह्मणो नाम गृहीतं
'अजो हरौ हरे कामे विधौ छागे रघोः सुते' इति विश्वः । मण्डूकेन
हरिरिति विष्णोर्नाम गृहीतम् । रासभेन हर इति रुद्रस्य नाम
गृहीतम् 'हरा रुद्राग्निगर्दभाः ' इति रत्नमालायाम् । तावता तिसृणां
मूर्तीनां ब्रह्मविष्णुशिवानाम् संबन्धि, 'न तिसृ चतसृ' इति न नामि
दीर्घः । इह छागमण्डूकरासभेषु किमागतं, तदीयब्रह्मत्वादिकं किं
प्राप्तमित्यर्थः । तन्नामधारणमात्रेण न तत्त्वं भवति । अतो दृतैः
प्रसिद्धपुरुषनामधारणमात्रेण न तत्प्रसिद्धिर्लभ्यत इति भावः । यद्वा
इह जगति तावता तिसृणां मूर्तीनां किमागतं, किं न्यूनत्वमागतम् ?
तेषां ब्रह्मत्वाद्यप्राप्तौ खलु न्यूनत्वं, तदभावात्किमनिष्टमित्यर्थः ॥ १ ॥