This page has not been fully proofread.

अनिपुणपद्धतिः ।
 
१३
 
खरयुद्धे तस्यात्यन्तसन्निकर्षे सति स्थलाभावेन पश्चात्पादप्रसर्पणं च
सदन्ति के सत्पुरुषसमीप एव, निर्भयाः सन्तः, वदन्ति दोषत्वेन कथ-
यन्ति । परिमितगुणे, स्पष्टावद्ये स्फुटापरिमितदोषे, पृथग्जने, मुधा
व्यर्थ, किं किमर्थे, उदासते उपेक्षन्ते । वाक्कण्डूति निवृत्त्यै यथेच्छं
दूषयितुं विषये सत्यपि तद्विहाय परमात्मनि किमिति दोषानारोपय-
न्ति, परमात्मन्येव दोषारोपणे किमुत सत्सु दोषारोपणमिति
भावः ॥ १२ ॥
 
'
 
इति श्रीमच्छ्री शैलकुल तिलकस्य वेङ्कटाचार्य सोमसुतः सुतस्य
श्री श्रीनिवासविदुषः कृतिषु सुभाषितनीवी-
 
व्याख्यायां रनपेटिकाख्यायां
 
अनिपुणपद्धतिः
 
प्रथमा ॥