सुभाषितनीवी /30
This page has not been fully proofread.
१२
सुभाषितनीव्यां
क्षते, कदा विशालपर्णानि भविष्यन्ति कदा ग्रहिष्यामीति स्वप्र -
योजनतत्परो भवतीत्यर्थः ॥ ११ ॥
अनन्तकल्याणगुणगणे निर्दोषे भगवत्यपि दोषानारोपयन्तः पर-
दूषणैकतत्परा अल्पगुणे बहुलदोषे जने किमित्युपेक्षन्त इत्याह-
निरवधिगुणग्रामे रामे निरागस वागसि -
स्फुरणमुषितालोका लोका वदन्ति सदन्तिके ।
वरतनुहविं वालिद्रोहं मनागपसर्पणं
परिमितगुणे स्पष्टावद्ये सुधा किमुदासते ॥ १२ ॥
इति श्रीकवितार्किक सिंहस्य वेदान्ताचार्यस्य सर्वतन्त्रस्व-
तन्त्रस्य श्रीमद्वेङ्कटनाथस्य कृतिषु सुभाषितनीव्यां
अनिपुणपद्धतिः
प्रथमा ॥
निरवधीति । निरवधिगुणग्रामे निरवधिकगुणसमूहे, निरागसि
निर्दोषे रामे, ' बहवो नृप कल्याणगुणाः पुत्रस्य सन्ति ते । सर्वलोक-
प्रियः साधुरदीनात्मा विचक्षणः । आर्यः सर्वसमश्चैव बुद्धिमान्नीतिमा-
नपि ।' इत्याद्युक्तेः, लोका दुर्जनाः, वाच एवासयः खङ्गाः तेषां स्फुरणैः
जृम्भणैः विलसनैश्च, मुषिताः आलोका ज्ञानप्रकाशा बाह्यालोकाश्च
येषां ते तथोक्ताः सन्तः, वरतनुहतिं लोकहितार्थ विश्वामित्राज्ञाकृतं
(ताटकात्रधं), वालिद्रोहं अमार्गप्रवृत्तदुष्टवालिबधं, मनागपसर्पणं