This page has not been fully proofread.

अनिपुणपद्धतिः ।
 
११
 
ते पर्णाश्रितकीटवत् स्वयं नश्यन्तः परान्नाशयन्तीत्याह । अगणितेति ।
अगणितनिजप्रणाशैः आश्रयाशैः स्वोपजीव्यनाशकैः किमनाश्यं, सर्व
नाश्यमेव । तत्र निदर्शनतयार्थान्तरं - असितवर्त्मानः कृष्णवर्त्मानः
अग्नयः, येभ्यो वृक्षेभ्यः सिद्धयेयुः वृक्षाणां परस्परसङ्घर्षणेन उत्पन्ना
भवेयुः, तानेव वृक्षान् घ्नन्ति दहन्ति; अगणितनिजप्रणाशैः - 'आतृणं
पचते वह्निः' इति स्वनाशमप्यविचार्य आश्रयमश्नद्भिः आश्रयाशैर-
मिभिः, किमनाश्यं किमभक्ष्यं, सर्वे भक्ष्यमेवेत्यर्थः ॥ १० ॥
 
स्वोपकारमात्रपराः केचिदज्ञानिनः सर्वमपि स्वार्थमपेक्षन्त
 
इत्यभिप्रेत्याह-
 
नवदल पुढे कल्प्या यस्य प्रभोरपि तल्पधी-
परिवृढो यस्याधस्ताच्छ्रमं शमयिष्यते ।
वटविटपिनस्तस्याङ्कराननुत्कटपल्लवान्
 
स्थपुटचटकापेक्षी भिक्षुः प्रतिक्षणमीक्षते ॥ ११ ॥
 
नवदलेति । यस्य वटस्य नवदलपुटे, प्रभोः सर्वेश्वरस्यापि, तल्प-
धीः कल्प्या, प्रतिकल्पं कल्पादौ शय्याबुद्धिः कल्प्यत इत्यर्थः । यस्य
वटस्याधस्तान्नटपरिवृढः शिवः श्रमं शमयिष्यते, लोकान् संहृत्य
श्रमं परिहरिष्यति, दक्षिणामूर्तेर्वटवृक्षस्याधोवासित्वं प्रसिद्धम् ; तस्य
तजातीयस्य वटविटपिनः, अनुत्कटपलवान् सम्यगविकसितदलान्,
अङ्करान्, अभीशुवल्मीकादिवदङ्करशब्दो ह्रस्वमध्यो दीर्घमध्यश्च ।
भिक्षुः स्थपुटचटकापेक्षी निम्नोदपानपाल भूतपत्रपुटापेक्षी, प्रतिक्षणमी-