सुभाषितनीवी /25
This page has been fully proofread once and needs a second look.
हरिकरपुष्करहंसं
हारमणीनां प्रसूतिमिव लक्ष्म्याः ।
पित्तेन पाञ्चजन्यं
पीतं पश्यन्भिषज्यति कम् ।। ५ ।।
हरीति ।। हरे: करपुष्करे हस्तारविन्दे हंसमिव स्थितं, अनेन धा-
वल्योक्तिः, लक्ष्म्याः हारमणीनां प्रसूतिमिव कारणमिव स्थितं, अनेन
अतिधावल्योक्तिः, कारणगुणा हि कार्यगुणानारभन्त इति न्यायात् ।
पाञ्चजन्यं भगवच्छङ्खं, पित्तेन स्वनयनगतपैत्त्यदोषेण, पीतं पश्यन्,
अज्ञ इति शेषः; कं भिषज्यति भिषजं करोति स्वदोषनिवर्तकमिच्छ-
ति, न कमपीत्यर्थः । भिषज् चिकित्सायामित्यस्मात् कण्ड्वादित्वाद्यक् ।
स्वदोषमजानन् पीतः शङ्ख इति मनुते, न स्वदोषनिवर्तनाय प्रयतते;
एवमनात्मज्ञोऽपि स्वाज्ञानादिनिवर्तनाय सत्सहवासादिकं न करोति,
परं तु देहात्मैक्यादिकमेव मनुते; अहो किमस्यानिपुणतेत्यर्थे प्रस्तुते,
तद्विहाय तत्सरूपाप्रस्तुतार्थनिबन्धनादप्रस्तुतप्रशंसालंकारः ॥ ५ ॥
स्फटिकः स्वभावशुद्धः
स एव सन् सहति सर्वमारोपम् ।
भवति न तत्रानास्था
तदुपाधिषु वा भवत्यास्था ॥ ६ ॥
स्फटिक इति ॥ स्वभावशुद्धः स्फटिकः स एव सन्, स्फटिकत्वा-
कारेणेत्यर्थः; सर्वमारोपं जपाकुसुमादिसान्निध्येन रक्तत्वाद्यारोपं,