We're performing server updates until 1 November. Learn more.

This page has been fully proofread once and needs a second look.

मात्राणि पश्यन्नपि न पश्यसि ॥' इत्यादि स्मारितम् । स्वदोषस्य स्व-
ज्ञातत्वेऽपि निर्दोष इवाभिनयतीत्यर्थः ॥ ३ ॥
 
यो यदीयं क्षीरान्नादिकं भुक्त्वा तद्विषये द्रोहमाचरति, तस्मिन्
कृतघ्नेऽज्ञानिनि कीर्ति: करुणा सदाचारश्च नास्तीत्यमुमर्थं श्लेषेण
सनिदर्शनमाह--
 
यत्र पयःप्रभृति स्वं
भुक्त्वासत्यानुषक्तधीश्चोरः ।
पशुवृत्तिगणे तस्मि-
अपि नाम यशोदयावृत्तम् ॥ ४ ॥
 
यत्रेति || यत्र यस्मिन्, पशूनां (वृत्तिः) स्थितिरिव स्थितिर्येषां
तेषां गणे समूहे, विद्यमान इति शेषः, पयःप्रभृति स्वं भुक्त्वा क्षीरादि
द्रव्यं भुक्त्वा, चोरः सन् असत्यानुषक्तधीर्भवति, तस्मिन्समूहे, यशः
गुणवत्त्वप्रसिद्धिः, दया करुणा, वृत्तं सद्वृत्तिः सदाचारः, अपि नाम
भवति किं । अत्र बुद्धिसंप्रतिपत्त्यर्थे श्लेषेण निदर्शयति – चोरः
कृष्णः, पशूनां वृत्तिः स्थितिर्यस्मिन् तस्मिन् गणे नन्दव्रजे, पयःप्रभृति
स्वं भुक्त्वा । असत्यानुषक्तधी: सत्यभामासक्तबुद्धिर्न भवति, तदानीं
सत्यभामाविवाहाभावात्; तस्मिन् गणे यशोदया कृष्णमात्रा, वृत्तं
वर्तनं, अपि नाम भवेत् । पूर्वत्र गर्हायामपिः, इह संभावनायां ; यद्वा
तत्र गणे गोव्रजे यशोदया वृत्तं अपि नाम भवेत्किं, न भवत्येव,
यशोदाया गृहे वर्तमानत्वादिति भावः ॥ ४ ॥