सुभाषितनीवी /23
This page has been fully proofread once and needs a second look.
ममासोक्तिः । अन्येऽपि काव्यार्थचोरेभ्यः स्वग्रन्थस्य रक्ष्यतामाशा-
साना दृष्टाः ; तथा हि -- 'साहित्यपाथोनिधिमन्थनोत्थं कर्णामृतं
रक्षत हे कवीन्द्राः । यत्तस्य दैत्या इव लुण्ठनाय काव्यार्थचोराः
प्रगुणीभवन्ति' इति ॥ २ ॥
पश्यति परेषु दोषा-
नसतोऽपि जनः सतोऽपि नैव गुणान् ।
विपरीतमिदं स्वस्मि-
न्महिमा मोहाञ्जनस्यैषः ॥ ३ ॥
पश्यतीति ॥ जनः पामरजन:, 'जनो महर्लोकात्परलोके
च पामरे ' इति विश्वः । अज्ञ इति यावत् । परेष्वसतः अविद्यमा-
नानपि दोषान् पश्यति विचारयति, सतो विद्यमानानपि गुणान्न
पश्यत्येव ; इदं स्वस्मिन्विपरीतं पश्यति, अविद्यमानान् गुणान् पश्यति
विद्यमानान् दोषान्न पश्यतीत्यर्थः । इदमन्यथादर्शनं तमोमूला-
ज्ञानमूलमित्याह -- महिमा मोहाञ्जनस्यैष इति । लोके ह्यञ्जनं भूतला-
दिच्छन्नं विद्यमानं वस्तु साक्षात्कारयति, अदृश्याञ्जनं परेभ्यस्तद्धारिणं
विद्यमानमेवादृश्यं करोति, तथा मण्डूकवसाञ्जनादिकं वंशोरगत्वाद्य-
विद्यमानमपि दर्शयति; एवं मोहाञ्जनमात्मन्यविद्यमानानपि गुणान्
दर्शयति परेषु विद्यमानान् गुणान्न दर्शयतीत्यज्ञानेऽञ्जनत्वारोपः ।
तत्र प्रतिनियतविपरीतदर्शनहेतुत्वाल्लोकसिद्धाञ्जनापेक्षया वैलक्षण्यम् ।
तद्वाक्यार्थस्य पश्यतीत्यादिपूर्ववाक्यार्थसमर्थनार्थत्वात् काव्यलिङ्गालं-
कार: । 'राजन् सर्षपमात्राणि परच्छिद्राणि पश्यसि । आत्मनो मेरु-