This page has been fully proofread once and needs a second look.

प्रमितिपरिष्कृतमुद्रा
सहृदयहृदये समर्पिता कविभिः ।
भवति सुभाषितनीवी
पटुगुणचोरैरहार्यार्था ॥ २ ॥
 
प्रमितीति ॥ प्रमित्या यथार्थबुद्ध्या परिष्कृता मुद्रा यस्याः सा
तथोक्ता, स्वाधीनप्रमितिमतामेव ग्राह्यार्थवत्त्वमिति प्रमित्यां मुद्रात्व-
रूपणं; धनपक्षे इयदत्र धनं निक्षिप्तमिति प्रत्ययाय परिष्कृतमुद्रा भव-
तीत्यर्थः । कविभिः सूरिभिर्वणिग्भिश्च, सहृदयहृदये सारग्राहिप्रामाणि-
कहृदये, समर्पिता निवेदिता, सुभाषितानां नीतिवाक्यानां नीवी
मूलधनं, इयं कृतिः । यथा मूलधनेन धनवृद्धिः संपाद्यते, तथाऽनया
बुद्धिमद्भिः सुभाषितवृद्धिः संपाद्यत इति मूलधनत्वरूपणम् । पटवो ये
गुणाः काव्योपस्कारकाः शब्दार्थविशेषास्तेषां चारैः; अन्यत्र, पटवो
गुणाः भित्तिभेदनचातुर्यादिगुणा येषां तैस्तथोक्तैः, चोरैरपहर्तृभिः,
अहार्यो ग्रहीतुमशक्योऽर्थोऽभिधेयं धनं च यस्याः सा तथोक्ता भ-
वति, कुकविदुर्ग्रहार्था भवतीति भावः । अनेन सत्कविभिः स्वस्वप्रणी-
तसुभाषितग्रन्था रक्षणीया इति प्रतीतिः फलम्, कुकवयः परोच्छिष्टो-
पजीविनो बहिष्कार्या इति निन्दाप्रतीतिश्च । स्वकीयापूर्वशब्दार्थस्फुर-
णाभावे सति परकीयशब्दार्थान् गृहीत्वा अस्माभिः कृतमिति प्रकाशनं
सरस्वतीचौर्यरूपं आत्मनाशकरमित्यजानतामनिपुणपद्धत्यन्तःप्रवेशः ।
'बद्धवैराणि भूतानि ' इति न्यायेन दोषवर्णनं शिक्षारूपं न निन्दा-
तात्पर्यमाचार्याणामिति मन्तव्यम् । अत्र ग्रन्थे वणिग्व्यवहारप्रतीतेः