सुभाषितनीवी /21
This page has been fully proofread once and needs a second look.
नन्तव्यत्वमित्यभिप्रायेणाह सर्वं हत इति । यौ परमपुरुषोऽहं च सकृ-
दुपकारापकाराभ्यां कृतं सर्वं हतः नाशयतः । हन हिंसागत्योरित्यस्मा-
ल्लटस्तसि तसो ङित्त्वादनुदात्तोपदेशेत्यादिना अनुनासिकलोपः । 'कथं
चिदुपकारेण कृतेनैकेन तुष्यति । न स्मरत्यपकाराणां शतमप्यात्मव-
त्तया ॥ ' इति दासेन क्रियमाणशरणागतिमपि भगवतो निरुपा-
धिककारुण्यतया रक्षापेक्षाप्रतीक्षत्वेन स्वस्योपकारं मत्वा सर्वे पापजातं
नाशयतीत्यर्थः । आत्मा तु हितवृत्तिमाचरेत्युपदेशमेव स्वस्थापकारं
मत्वा भगवत्कृतोपकारं अस्मरन् तस्मै द्रुह्यति; तदेव सर्वकृतना-
शनम् । 'प्रथितं पातकिवर्गं कृतघ्न एकोऽपि कृत्स्नमतिशेते ।
तमिमं क्रियमाणघ्नस्तमपि दुरात्मा करिष्यमाणघ्नः ॥' इति प्रमाण-
मजानन् स्वोपकर्तरि अनिष्टमाचरति दुर्जनस्वभाव एषोऽज्ञ इति
पद्धत्यन्वयः । अनेन निपुणेन सस्वोपकारिणि नाहितमाचरणीयमिति
धर्मबोधः ; 'उपकारिणि यः साधुः साधुत्वे तस्य को गुणः ।
अपकारिणि यः साधुः स साधुरिति कथ्यते ॥' इति अपकारिण्यपि
हिताचरणस्यैव विधानात्, 'कृतघ्ने नास्ति निष्कृति: ' इति महा-
दोषस्मरणाच्च । अत्र 'नमः पतनशीलाय खलाय मुसलाय च । कुर्वाते
स्वमुखेनैव बहुधान्योपखण्डनम् ||' इतिवत् परमपुरुषसमानधर्म-
तया नन्तव्यत्वोक्त्या स्तुत्या निन्दाभिव्यक्तिरिति व्याजस्तुत्यलङ्कारः ;
तदङ्गभगवत्तुल्यत्वकीर्तनात्तुल्ययोगितेत्यनयोरङ्गाङ्गिभावसंकरः ॥
करिष्यमाणस्य ग्रन्थस्य नामनिर्देश पूर्वक काव्यार्थचोरेभ्यो रक्ष्य-
त्वमाशास्ते --