सुभाषितनीवी /20
This page has been fully proofread once and needs a second look.
--इति विरचय्य स्वरूपशिक्षार्थं तद्व्याजेन लोकहितार्थं सामान्यवि-
शेषधर्मप्रतिपादनपरं द्वादशद्वादशपद्यकद्वादशपद्धतिकं सुभाषितनी-
व्याख्यं नीतिप्रबन्धं प्रणिनाय । तत्रानिपुणपद्धतिर्दृप्तपद्धतिः खलपद्ध-
तिर्दुर्वृत्तपद्धतिरसेव्यपद्धतिर्महापुरुषपद्धतिः समचित्तपद्धतिः सदा-
श्रितपद्धतिर्नीतिमत्पद्धतिर्धनधान्यपद्धतिःसत्कविपद्धतिः परीक्षितपद्ध-
तिरिति क्रमः । दोषान्विधूय गुणाः प्रापणीया इति प्रथमं दोषपराः
पद्धतयः प्रणीताः, तेष्वात्मोत्तारणनैपुण्याभावादनिपुणत्वं तस्य
हेतुर्देहात्मादिविवेकाभावस्तदेवाज्ञानं ततो दृप्तता खलत्वं दुर्वृत्तता च,
तेन सज्जनैरसेव्यत्वमिति परस्परसङ्गतिः । तथा चाज्ञानस्य (सर्व)
दोषकारणत्वात्तदेवावश्यं परिहरणीयमिति बुद्ध्या अनिपुणपद्धतिः
प्रथममारब्धा । तत्र मङ्गलश्लोकस्य दुर्जनेभ्यो ग्रन्थस्य रक्ष्यत्वपर-
श्लोकस्य च पद्धतिनियमितद्वादशश्लोक्यन्तर्गतत्वात्तयोरप्यनिपुण-
परतां प्रतिपादयितुं तद्दोषकीर्तनम् । तत्रायं मङ्गलश्लोकः --
प्रथमसुजनाय पुंसे
मह्यमपि प्रथमदुर्जनाय नमः ।
सर्वं हतः कृतं यौ
सकृदुपकारापकाराभ्याम् ॥ १ ॥
प्रथमसुजनायेति ॥ प्रथमश्चासौ सुजनः परमपुरुषः, तस्मै
नमः । प्रथमचरमजघन्यसमानमध्यमध्यमवीराश्चेति प्रथमशब्दस्य<error>-</error>
पूर्वनिपातः । स्वस्य दुर्जनत्वे उच्यमाने सर्वेषां स्वात्मनि दुर्जनत्व-
प्रतीतिर्भवत्विति मह्यमित्युक्तम् । परमपुरुषसमानधर्मत्वात् स्वस्यापि