Proofing

This page has been fully proofread twice.

<page>
<subtitle lang="sa">॥ श्रीः ॥</subtitle>
<title lang="sa">॥ सुभाषितनीवी ॥</title>
<verse lang="sa">श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि ॥</verse>
<heading lang="sa">अनिपुणपद्धतिः ॥</heading>
<p lang="sa">इह खलु भगवान् वेङ्कटनाथार्यः कवितार्किकसिंहः सर्वतन्त्रस्व-
तन्त्रः राजमहेन्द्रनगरस्थित(सर्वज्ञ)शिङ्गक्षमावल्लभेन एकलव्यन्या-
येन शिष्येण विशिष्टश्रीवैष्णवधर्मविविदिषया श्रीरङ्गनगरस्थितस्य
वेदान्तदेशिकपदेऽभिषिक्तस्य स्वस्य निकटं प्रति श्रीवैष्णवेषु प्रेषितेषु
तदर्थं रहस्यसंदेशतत्त्वसंदेशौ श्लोकं च कंचित् --</p>
<verse lang="sa">&apos;'सत्त्वस्थान्निभृतं प्रसादय सतां वृत्तिं व्यवस्थापय
त्रस्य ब्रह्मविदागसस्तृणमिव त्रैवर्गिकान्भावय ।
नित्ये शेषिणि निक्षिपन्निजभरं सर्वंसहे श्रीसखे
धर्मं धारय चातकस्य कुशलिन् धाराधरैकान्तिनः ॥&a'</verse>
</
pos;</verse>
</page>
age>