This page has been fully proofread once and needs a second look.

॥ श्रीः ॥
 
॥ सुभाषितनीवी ॥
 
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि ||
 
अनिपुणपद्धतिः ॥
 
इह खलु भगवान् वेङ्कटनाथार्यः कवितार्किकसिंहः सर्वतन्त्रस्व-
तन्त्रः राजमहेन्द्रनगरस्थित(सर्वज्ञ)शिङ्गक्षमावल्लभेन एकलव्यन्या-
येन शिष्येण विशिष्टश्रीवैष्णवधर्मविविदिषया श्रीरङ्गनगरस्थितस्य
वेदान्तदेशिकपदेऽभिषिक्तस्य स्वस्थ निकटं प्रति श्रीवैष्णवेषु प्रेषितेषु
तदर्थं रहस्यसंदेशतत्त्वसंदेशौ श्लोकं च कंचित् --
 
'सत्त्वस्थान्निभृतं प्रसादय सतां वृत्तिं व्यवस्थापय
त्रस्य ब्रह्मविदागसस्तृणमिव त्रैवर्गिकान्भावय ।
नित्ये शेषिणि निक्षिपन्निजभरं सर्वेसहे श्रीसखे
धर्मं धारय चातकस्य कुशलिन् धाराधरैकान्तिनः ॥'