This page has not been fully proofread.

उच्चकार उद्गीर्णवान् विभक्तवान् । ततः काले तस्मिन् काले, परुषैः
 
'
 
तैरेव यतो नीतेः दूरीकृतश्चासि । त्वयि धातुः सा नीतिः साजात्य-
बैजात्यबुद्धयुत्पादनरूपा परं सती अत्यन्तं श्लाघ्या ॥ ११ ॥
 
पुट: ८३.
 
,
 
:
 
वदान्येति ॥ कदर्यश्च गृहीतस्थिरलोभतः इदं स्थिरं भूयादिति
भावात्, परान् अन्यान्, अर्थैः अयोजयन्, कस्मैचित् किंचित्
अददत्, स्वजनानामनर्थहेतून् अर्थान् धनानि संचिनोति । परेभ्यो-
ऽर्थे दत्ते स्वार्थनाशः स्यादिति मत्वा न किंचित् ददाति, प्रत्युत स्व-
जनान् बाधते स्वार्थलाभायेति भावः । वदान्यः, गृहीतस्थिरलोभतः
गृहीतमिदं स्थिरं मे भूयादिति इच्छया स्वान् अर्थान् आत्मीयधनानि,
परानर्थैः परोपद्रवैः, अयोजयन् परोपद्रवे कृते तत्रानुकूलार्थनाशः
स्यादिति बुद्धया
स्वेनार्थेन परान् अपीडयन्नित्यर्थः । अर्थान
 
संचिनोति ॥ ९ ॥
 
अनिःशेषित इति ॥ दातव्यम् अपरेप्सितं तेन च तत्प्रश्नो
लक्ष्यते । अनिःशेषितः असमाप्तः दातव्यः ईप्सितप्रश्नो येन तम् ।
वदान्यमिति वादिनं अन्यदीप्सितं वदेति वादिनं पुरुषम्, अर्थी
जनः, सव्रीलः नोपसर्पति व्रीलया आकुला वधूरिव, महत् अस्माकम्
ईप्सितं कथमयं दास्यतीति आगमनदशायाम् उत्पन्नाया बुद्धेः
सर्वमीप्सितम् दत्त्वा पुनः अन्यत् वद इति प्रश्न बाधितत्वात्
लज्जा ॥ १० ॥
 
पुरुष /