सुभाषितनीवी /127
This page has not been fully proofread.
3
सामोपसीत' इति श्रुत्या स्तोत्राङ्गत्वेन च भक्तिशब्दः । प्रस्तावस्य
मामावयवत्वेऽपि सामपुरस्कारकत्वं न संभवति, उद्गीथाद्येकदेश-
पुरस्कारकत्वात्। ज्वलनवक्त्राणामपि अग्निमुग्वानां देवानामपि, साम-
गीतिविशेषः परं संवननमिति । यद्वा भक्तिभेदैः प्रस्तावोद्गीथप्रति-
हारोपद्रवनिदानाख्यैः विभागविशेषैः पूजितमिति ॥ ९ ॥
1
विधाविति ॥ नीत्या जैमिनिमुनिप्रणीतन्यायकलापेन, विधौ
शास्त्रार्थे, लब्धधृतिः निर्भयः, क्रियमाणे कर्मण्यन्यथाशङ्का हि दुरि-
तोत्पत्तिशङ्काजननद्वारा भीतिमुत्पादयति, न्यायजनितो निर्णयः
तां शङ्कां वारयति । विनतानन्दनः आनतानां ऋत्विजां दक्षिणाभिः
आनन्दोत्पादकः, द्विजः त्रैवर्णिकः, स्थानेषु नियम्यमानैः भुजङ्गैरपि
भूष्यते संज्ञपन विशसनादिषु नियुज्यमानैः कुपितैरपि स्तूयते । अर्था-
न्तरम् । नीत्या इष्टदेशप्रापणेन तदर्थमित्यर्थः । विधौ विष्णौ, लब्ध-
धृतिः प्राप्तधारणः,
विनतानन्दनः द्विजः वैनतेयः पक्षी, स्थानेषु
शिरः कर्णभुजवक्षःकटिपादेषु, नियम्यमानैः बध्यमानैः, भुजङ्गैः
सर्वैरपि, भूष्यते अलंक्रियते ॥ १० ॥
1
नीतिरिति ॥ व्यवहारासमर्थस्य कोकिलस्य शैशवे शरीररक्षार्थे का-
ककुलान्तर्भावोऽपेक्षितः । साध्यनिष्पत्त्युत्तरकालं विजातीयसहवासस्य
दु:ग्वावहत्वेन सजातीयसहवासस्य हृद्यत्वेन च काककुलबहिर्भावो-
ऽपेक्षितः । एतदुभयं काकैरेव घटयतो विधेः साजात्यवैजात्यबुद्धयु-
त्पादनरूपसामर्थ्यप्रशंसया परैरेव स्वार्थे घटयतः पुरुषविशेषस्य साम-
प्रशंसां व्यनक्ति । हे परपुष्ट, कोकिल, यतः नीतेः, त्वं, बलिपुष्ट-
कुलैः काककुलैः पुत्रीकृतोऽसि । एष विधिः तत्र कर्णे यथा पञ्चमम्