सुभाषितनीवी /126
This page has not been fully proofread.
सिद्धिं इष्टार्थप्राप्तिम् अर्हत्येवेत्यर्थः । अर्थान्तरम् । यं सनकमकं ब्रह्म-
कुमारम्, एनोऽपक्रमे पापापगमे जाते व्यवस्थितं वौ परमात्मनि
अवस्थितम्, विश्वाधीशं च विश्वेषाम् आधीनां मानसव्यथानाम्
ईशम् अवश्यं च, अजानन् महर्षयो ज्ञातवन्तः । सामादिषु ऋग्यजुः-
सामाथर्वणेषु, तत्त्वज्ञः स सनकः सिद्धिमर्हत्येव । ' विः प्रक्षिपरमा-
त्मनो:' इति भट्टबाणः 'पुंस्याधिर्मानसी व्यथा' इत्यमरः ।
अर्थान्तरम् । एनोऽपक्रमे पापापगमे, विश्वाधीशं प्रपञ्चप्रभुं व्यव-
स्थितं इंसस्थितं च यं ब्रह्माणं जानन् सामादितत्त्वज्ञः पुरुषो भवति,
सः कः स ब्रह्मा सिद्धिं प्राप्यताम् अर्हतीति । अर्थान्तरम् । सामादि
तत्त्वज्ञः पुरुषः व्ववस्थितं गरुडस्थितं हरिं विश्वाधीशं चराचरपतिं
जानन् भवति । 'एको नैकः सवः कः किम्' इति ससंज्ञः स हरिः
सिद्धिम् अनवाप्तावाप्तव्यप्राप्तिं नार्हति । ' नानवाप्तमवाप्तव्यम्' इति
स्मृतेः ॥ ८ ॥
1
प्रयुक्तमिति ॥ काले मन्त्रिभिः प्रयुक्तं प्रातिकूल्याभिवृद्धेः प्रागे-
वामात्यैः कृतं, भक्तिभेदात् पुरस्कृतं पूजितं, साम समीचीनवचनं,
ज्वलनवक्त्राणामपि क्रोधातिशयेन ज्वलनसदृशमुखानामपि परं संव-
ननं श्रेष्ठं वशीकरणसाधनं । 'वशक्रिया संवननम्' इत्यमरः । अर्था-
न्तरम् । काले बहिष्पवमानादिप्रयोगकाले मन्त्रिभिः सामगैः ऋग्यजुः-
सामानि मन्त्राः तद्विदः मन्त्रिणः 'अहे बुध्न्य मन्त्रं मे गोपाय यमृप-
यस्त्रैविदा विदुः। ऋचः सामानि यजूंषि । सा हि श्रीरमृता सताम् '
इति श्रुतेः । प्रयुक्तं गीतं, भक्तिभेदेन हिङ्काराख्येन भक्तिविशेषेण,
पुरस्कृतं पूर्वभागे कृतं हिङ्कारस्य सामानवयवत्वेऽपि 'सप्तभक्तं