This page has not been fully proofread.

ADDENDA.
 
पुट: ६५.
 
शिक्षकेति ॥ शिक्षके शिक्षकसमीपे, हरिताकारो द्विजः शुकः,
अपूर्ववर्णवान् भाति अकाराद्यक्षरवान् भाति । मेरौ, नीलतनुः द्विजः
काकः, अपूर्ववर्णवान् पूर्ववर्णादन्यवर्णवान् स्वर्णवर्ण इत्यर्थः ।
सत्यनिष्ठे वसिष्ठे, कौशिकः विश्वामित्रः, अपूर्ववर्णवान् ब्राह्म-
गवर्णवान्, वर्णशब्दो वर्णत्वपरः न विद्यते यस्मात् पूर्वो वर्णः
सोऽपूर्ववर्ण: ब्राह्मणवर्णः, ब्राह्मणवर्णा न पूर्ववर्णोऽस्ति तस्य
सर्वपूर्वत्वात् । यद्वा सत्यनिष्ठे गौतमे कौशिकः इन्द्रः, अपूर्ववर्णवान्
अवर्णवान् इत्यर्थः । अवर्णम् अधरः परीवादो वा ।
 

 
:
 
निर्वादपरीवादापवादवत् इत्यमरः ॥ ५ ॥
 
पुटः ७६.
 
6
 
'अवर्णाक्षेप-
 
यमेति ॥ ' अहिंसा सत्यवचनं ब्रह्मचर्यमकल्कता । अस्तेय-
मिति पञ्चैते यमाश्चैव व्रतानि च । इति यमशब्दार्थः उक्तः ।
उपक्रमे ऐश्वर्यारम्भदशायां यमेनाहिंसनादिना, व्यवस्थितमेकरूपं
 
पुरुषम्,
विश्वाधीशं विश्वस्य भूमण्डलस्य अधीशं प्रभुं, जानन् अहिं-
सादियुक्त एव मण्डलाधिपतिः भविष्यतीति निश्वयवानित्यर्थः
सामादिषु सामदानभेददण्डेषु, तत्त्वज्ञः यथार्थज्ञानवान् च यो
भवति । स तादृशः कः सिद्धिं नार्हति । एतादृश: सर्वोऽपि राजा