This page has not been fully proofread.

१०२
 
सुभाषितनीव्यां
 
:
 
एकयेति ॥ कश्चित्कलङ्किताः सम्यगभ्यासाभावेन अनिश्चि-
तार्थाः, भूयसीः कलाः बह्वीः विद्याः, प्राप्य शनैः अपचीयते क्षीणो
भवति, सुदृढविद्यो न भवति, विशुद्धया संप्रदाय पूर्वकं सम्यगभ्य-
स्तया, सुनिश्चितार्थया एकया कलयाऽपि, योऽपि कोऽपि यः क-
चिदपि, गिरि वाचि विषये, ईशतां स्वतन्त्रत्वम् भजते । अत्र चन्द्रः
शिवश्व निदर्शनम् ॥ १२ ॥
 
तुषारगिरिसच्छायं तुलसीदामभूषणम् ।
तुरङ्गवदनं वन्दे तुङ्गसारस्वतप्रदम् ॥
 
श्रीमते रामानुजाय नमः ।
 
इति श्रीमच्छ्रीशैल कुलतिलकस्य वेङ्कटाचार्य सोमसुतः सुतस्य
श्रीश्रीनिवासविदुषः कृतिषु सुभाषितनीवी-
 
व्याख्यायां रत्नपेटिकाख्यायां
 
परीक्षित पद्धतिः
द्वादशी ।