सुभाषितनीवी /119
This page has not been fully proofread.
परीक्षित पद्धतिः ।
१०१
कति वा दिनानि वद पर्यचिनो-
त्कलशसुतः कबलयन् जलधिम् ॥ ११ ॥
विधिमिति । विहगेन हंसेन, विधिमन्तरेण दैवयनं विना,
पयसोः क्षीरनीरयोः, विवेकविधिः विविच्यग्रहणम्, कुतोऽशिक्ष्यत
अभ्यस्तः, न कुतश्चिदपीत्यर्थः । कलशीसुतः अगस्त्यो वा जलधिं
कबलयन् कबलनार्थे कतिवा दिनानि पर्यचिनोत् परिचयमकार्षीत् ।
वदेति परिचयाद्यभावप्रकटनार्थः ॥ ११ ॥
परिशुद्धविद्य एव श्रेयानित्याह-
एकयाsपि कलया विशुद्धया
योऽपि कोऽपि भजते गिरीशताम् ।
भूयसीरपि कलाः कलङ्किताः
प्राप्य कश्चिदपचीयते शनैः ॥ १२ ॥
इति श्रीकवितार्किक सिंहस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य
कृतिषु सुभाषितनीव्यां
परीक्षित पद्धतिः
द्वादशी ।
सैषा सुभाषितानां माला महनीयवर्णवृत्तगुणा ।
भावुकसङ्गथारूढा प्रियपद्धतिभूषिता जयति ॥