सुभाषितनीवी /118
This page has not been fully proofread.
१००
सुभाषितनीव्यां
कटूनामिति ॥ कटूनां तीक्ष्णानां कोपवतामित्यर्थः । ' रसे कटुः
कट्वकार्ये त्रिषु मत्सरतीक्ष्णयोः ' इत्यमरः । शुण्ठी पिप्पली मरिचा
इति वैद्यशास्त्रप्रसिद्धत्रिकटूनां च सार्थत्वात् सप्रयोजनत्वात् कामं
यथेच्छं संग्रहः स्वीकारो भवति, तथापि वृत्तिः व्यापारः भक्षणं
च, तथा समीचीनवत् रसज्ञानां रसिकानां रसज्ञाया जिह्वायाश्चानु-
मतेरङ्गीकारस्य क्षमा योग्या न भवति । त्रिकटुकं निदर्शनम् ॥ ९ ॥
वेदशास्त्रवत्सु वृधा शब्दो न प्रसरतीत्यभिप्रेत्याह-
नादमङ्कणतालानां लाङ्गली नटनोचितम् ।
श्रुतिक्षमेषु ग्रामेषु न मूर्छयति गीतिवत् ॥ १० ॥
नादमिति ॥ वेदशास्त्रसमर्थेषु ग्रामेषु लाङ्गलीनां नारिकेलानाम्,
नटने वाय्वादिना चलने, उचितमभ्यस्तम्, अङ्कणतालानां च त्वरख-
र्तितालवृक्षाणां सहभावेन प्रवृत्तं नादम् ; श्रुतयः स्वरारम्भकावयवश-
दाः ताभिः क्षमेषु समर्थेषु, ग्रामेषु स्वरसन्दोहेषु, नटनोचितं
नाट्योचितम्, तालानां कांस्यवाद्यानाम्, नादं गीतिवत् गीतिष्विव,
न मूर्च्छति न वर्धयति । गीतिषु स्वरारोहावरोहणं मूर्च्छनम् ; तत्र ताल-
नादस्य यथारोहावरोहणं नास्ति, तथा तत्र तालनादस्य मेलनं वेदपा-
ठको न सहते, निरर्थकशब्दं न सहत इति भावः ॥ १० ॥
सदसद्विवेचनं कस्यचित् भाग्यवशेन भवति, नाभ्यासादित्याह --
विधिमन्तरेण विहगेन कुतः
पयसोरशिक्ष्यत विवेकविधिः ।