सुभाषितनीवी /117
This page has not been fully proofread.
परीक्षितपद्धतिः ।
महाजनपरिगृहीतं निकृष्टमपि वस्तु श्रेष्ठं भवतीत्यभिप्रेत्याह-
रत्नाभरणयोग्यानां राजान्तः पुरयोषिताम् ।
क्रीडाकङ्कणनिर्माणकाचोऽपि ललितायते ॥ ७ ॥
९९
रत्नाभरणेति ॥ क्रीडाकङ्कणेषु निर्माणार्थकाचोऽपि मृद्भेदकृतदर्प-
गोऽपि ललितायते परमभोग्यो भवति । 'भृशादिभ्यो भुव्यच्वेर्लोपश्च
हल:' इति अभूततद्भावे क्यङ् । 'काचारिशक्यमृद्भेददृजः' इत्यमरः ।
गजान्तः : पुरयोषितामित्यनेन परमैकान्तिनो विवक्षिताः स्त्राभरणयो-
ग्यानामिति महाराजपरिचरणीयत्वं विवक्षितम् । क्रीडाकङ्कणेत्यनेन
तमेवायोग्यः कचिद्बुद्धिमान् निकृष्टोऽपि विवक्षितः ॥ ७ ॥
यत्र सारासारविवेचकाभावेन तुल्यत्वपरिकल्पनं तत्र मतां महतां
मौनमेव युक्तमित्यभिप्रेत्याह--
मन्ये किन्नरमुख्यानां मौनं जगति सांप्रतम् ।
मशकक्कणितं यत्र वीणास्त्रन विकल्पितम् ॥ ८ ॥
मन्य इति ॥ यत्र मशककणितं मशकध्वनि: वीणास्वनेन विक-
पितं तुल्यं कृतमित्यर्थः । तत्र जगति किन्नरमुख्यानां मौनमेव साम्प्रतं
मन्ये, युक्तमिति निश्चिनोमि ॥ ८ ॥
क्वचित्कार्यवशेन निकृष्टपरिग्रहेऽपि हृदयाहादिनी प्रवृत्तिर्न
भवतीत्याह-
कटूनामिह सार्थत्वात्कामं भवति संग्रहः ।
तथापि वृत्तिर्न तथा रसज्ञानुमतिक्षमा ॥ ९ ॥