This page has not been fully proofread.

९८
 
सुभाषितनीव्यां
 
मेव भोग्यमिति मन्वानैः जिझगैः दुष्टैस्तु अन्यत्किमपि, सत्त्वसंस्था-
पनमित्यनुषज्यते, सत्त्वं सत्त्वगुणः संस्थाप्यते नाश्यते बलवता-
Satति सत्त्वसंस्थापनं रजस्तमोवृद्धिकरं सत्त्वनाशकं वस्तु, गृह्यते
सेव्यते, विरुद्धविषयमदिरास्वादः क्रियत इत्यर्थः । अत्र निदर्शनं
सर्पाः । जिह्मगैः सर्वैः पातालस्वर्गस्थैः अन्यत्किमपि सत्त्वसंस्था-
पनं नागसहस्रबलकरं रसं पीयते, तत्तेषां स्वर्गस्थत्वात्सुखावहं एतेषां
स्वस्थत्वभ्रान्त्या अन्यद्गृह्यते, तद्दुःखावहमिति भावः । नागलोके
तादृशरसोऽस्तीति भारते भीमसेनपातालगमने वर्णितम् । संपूर्वः
स्थाधातुः सम्यक्स्थापने नाशने च वर्तते ॥ ५ ॥
 
.
 
दुर्वासनाबलवशात् दुष्टा: सच्छास्त्रं परिहरन्ति चेन्न शास्त्रस्य
हानिः, किंतु त एव अज्ञानिन इत्यभिप्रेत्याह --
 
1
 
कलकण्ठगल।स्वाद्ये कामस्यास्त्रे निजाङ्कुरे ।
निम्बवृत्तिभिरुद्गीर्णे न चूतः परितप्यते ॥ ६ ॥
कलकण्ठेति ॥ कलकण्ठगलास्वाद्ये कोकिलकण्ठास्वादनीये
कल्मषनिवर्तनेन तदीयमधुरध्वनिहेतौ, अनेन पापनिवर्तनेन समीची-
नज्ञानोत्पत्तिहेताविति गम्यते । कामस्यास्त्रे विषयसुखसाधने, अत्रापि
भगवत्कैङ्कर्यादिसुखहेताविति गम्यते । निजाङ्कुरे स्वकीयपल्लवे, निम्ब-
वृत्तिभिरुष्टेः उद्गीर्णे निम्बसंयोगादर्थादास्यप्रविष्टे वान्ते सति चूतो
न परितप्यते परितापं नोपैति, जनानां परितापविषयो न भवति,
उष्ट्रा एव निद्यन्त इति भावः ॥ तप सन्ताप इत्यस्मात् कर्तरि लट्,
दिवादित्वाच्छ्यन् ॥ ६ ॥
 
: